पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
207
अप्रस्तुतप्रशंसासरः (२८)

कीर्षालक्षणया दयया सुशीतलः अतिमात्रशिशिरः असि । अत एव अस्मादेव हेतोः सुशीलोऽपि । शोभनं शीलं यस्य तथोक्तोऽपि । अपिस्समुच्चये सौशील्यवांश्चेत्यर्थः । असि । सौशील्यं नाम महतो मन्दैस्सह नीरन्ध्रसंश्लेषस्वभावत्वम् । एतच्च रामकृष्णाद्यवतारेषु गुहशबरीगोपालादिवृत्तान्तेषु प्रसिद्ध्यति । दयाशिशिरतावैधुर्ये सौशील्यस्य क्व समुन्मेषो भवेदिति तयोः कार्यकारणभावकथनम् । अत एव श्रितानां अवने रक्षणे विषषे अशीतः अनलस एव ‘शीतं हिमगुणे क्लीबं शीतलालसयोस्त्रिषु' इति मेदिनी । यद्वा अपिर्विरोधे । एवं दयाशिशिरतया सुशीलोऽपि श्रितावने अशीतः अशिशिरः उष्ण इति विरोधः परिहारस्त्वनलस इत्येव । सुतलश्च सुष्ठु तलति प्रतिष्ठत इति सुतलः ‘तल प्रतिष्ठायाम्’ इति धातोः पचाद्यच् । आश्रितरक्षणे जागरूक एव प्रतिष्ठित इत्यर्थः । यद्वा-- शोभनं तलं यस्य सः सुतलः । कल्याणस्वरूपश्च असि । आश्रितपरित्राणजागरूकतयैव कल्याणस्वभावो भवसीति भावः । ‘अधस्स्वरूपयोरस्त्री तलम्' इत्यमरः । पक्षे सुशीतल इति शब्दः अत एव अविद्यमानतकारमात्रस्सन् सुशील इति निष्पद्यते । स एव अशीतः शी इति वर्णेन इतः शीतः न शीतः अशीत एव अविद्यमान शीवर्णमात्रः सुतल इति निष्पद्यत इत्यर्थः । अत्र मद्रक्षण एव जागरूकतया प्रतिष्ठितस्त्वमिति विशेषे वक्तव्ये सामान्यकथनम् ॥

 तुल्ये प्रस्तुते तुल्याभिधानं यथा--

 वहमाने पवमाने घनाघने चाभिमुख्यवलमाने । चातकपोतकदवभवतापाटोपो न ते चिरं स्थाता ॥ ९८० ॥