पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
206
अलंकारमणिहारे

 कथं कृतार्था भवन्तीति योजना । अत्र अकिंचनोऽहमुपायान्तरस्थाने स्थितेन त्वयैवोज्जीवयितव्य इति विशेषे प्रस्तुते आकिञ्चन्यैकधना इत्यादिना सामान्यमभिहितमिति सामान्यनिबन्धनाऽप्रस्तुतप्रशंसा ॥

 यथावा--

 श्रेयोऽर्थिनामुपेयो भूयो नॄणां महापुरुष एव । किंचिदपि वाञ्छितं स्यादकिंचनैर्वञ्चनापरैर्न परैः ॥

 अत्र सकलपुरुषार्थप्रेप्सुभिरपि जनैश्श्रीनिवास एव सेवनीयो न मितंपचानि देवतान्तराणीति विशेषे वक्तव्ये तत्प्रत्यायनायाप्रस्तुतं सामान्यमुक्तमिति ध्येयम् ॥

 यथावा--

 कतिकति फणाभृदधिपतिगिरिपतिशेखर भवत्पदनखेन्दुम् । सन्तश्शेखरयन्तस्सर्वज्ञाश्चेश्वराश्शिवा नासन् ॥ ९७८ ॥

 अत्र भगवन्तं श्रीनिवासं प्रति त्वत्पदनखेन्दुशिरोधारणेन मम सार्वज्ञ्याधिकं सेत्स्यतीति विशेषे वक्तव्ये सामान्याभिधानम् ॥

 यथावा--

 शशिकरदत्तत्रपया कृपया भगवन् सुशीतलस्त्वमसि । अत एव सुशीलोऽपि श्रितावनेऽशीत एव सुतलश्च॥ ९७९ ॥

 हे भगवन्! त्वं शशिकराणां दत्ता त्रपा यया सा तया ततोऽपि शिशिरयेत्यर्थः । कृपया स्वार्थनिरपेक्षपरदुःखनिराचि-