पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
202
अलंकारमणिहारे

 यथावा--

 स्वाराज्यैश्वर्यमदान्नहुषः स्थितवानजागरो भूत्वा । जातोऽह्रस्वाकारोऽजगरो जगदम्ब तव कृपामान्द्ये ॥ ९७१ ॥

 हे जगदम्ब! तव कृपामान्द्ये सति नहुषः स्वराज्यैश्वर्यमदात् त्रिदिवाधिराज्यवैभवप्रयुक्ताच्चित्तविकारात् अविद्यमाना जागरा जागर्या यस्य तथाविधो भूत्वा भविष्यदनर्थपरिहारे अजागरूको भूत्वेत्यर्थः । स्थितवान् अत एव अह्रस्वः अनल्पः आकारः आकृतिः यस्य स तथोक्तः । महाशरीर इत्यर्थः। 'त्रिषु ह्रस्वोऽल्पखर्वयोः' इति रत्नमाला । अजगरः व्याळविशेषः जातः मुनिशापादिति भावः । जातः स्थितवानिति वा योजना । अत्र भारतीयं नाहुषमुपाख्यानमनुसंधेयम् । पक्षे अजागरशब्दः जातः जकारसंबन्धिन्याकारे । सार्वविभक्तिकस्तसिः । हृस्वः अकारो यस्य स तथोक्तः । आकारस्थाने अकारं प्रापितः अजगरः स्थितवान् अजगर इति निष्पन्न इत्यर्थोऽपि चमत्कारी । अत्र श्रियं प्रति त्वत्कृपाप्रसरमान्द्ये महतोऽपि दुरवस्थाप्राप्तिर्भवतीति सामान्येऽभिधेये विशेषोऽभिहितः ॥

 यथावा--

 इनतनयस्तव राघव राज्यमदान्नाकरिष्यदाज्ञां चेत् । सनयोऽपि ननय एव ह्यभविष्यदितस्ततोऽपि विभ्रष्टः ॥ ९७२ ॥

 हे राघव! इनतनयः सुग्रीवः राज्यमदात् राज्यलाभप्रयुक्तचित्तसमुन्नतेः तव आज्ञां यथाप्रतिश्रुतं सीतान्वेषणादिविषयं