पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
198
अलंकारमणिहारे

 यथा--

 त्वत्पदविन्यस्तभरस्सदुत्तमो नान्तरेण भवदूनः । अथ तादृशो भवन्नपि सत्तम एवेति वर्ण्यते भगवन् ॥ १६५ ॥

 हे भगवन्! त्वत्पदविन्यस्तभरः सदुत्तमः प्रपन्नाग्रेसरः पुमान् अन्तरेण उपायानुष्ठानफलोपलम्भयोर्मध्ये भवेन संसारेण दूनः परितप्तः न भवति । तस्यार्त्यतिशयात्प्रारब्धदेहधारणस्याप्यनिष्टत्वात् ‘यस्तु प्रारब्धदेहेऽपि शोचत्यार्तस्स उच्यते’ इति हि तल्लक्षणम् । अथ दृप्तप्रपन्नमभिप्रयन्नाह-- अथेति । अथ अथवा तादृशः प्रपन्नो भूत्वा अन्तरेणाभ्युपगतप्रारब्धखण्डतया भवदूनो भवन्नपि सत्तम एव प्रपन्नाग्रगण्य एवेति वर्ण्यते । प्राज्ञैरिति शेषः । न त्वप्रपन्न इत्यवधीर्यते 'यस्य देहान्तरकृते शोको दृप्तस्स उच्यते' इति हि दृप्तप्रपन्नलक्षणम् । यद्वा त्वत्पदविन्यस्तभरः सदुत्तमः ना पुमान् अन्तरेण तादर्थ्येन 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्यमरमेदिन्यौ । 'ओदनान्तरस्तण्डुलः' इत्यादौ तादर्थ्येऽन्तरशब्दो दृश्यत इति टीकासर्वस्वकारादयः । भवतः त्वत्तः ऊनः भवति ‘शेषः परार्थत्वात्’ इत्युक्तपारार्थ्यलक्षणशेषतास्वाभाव्याच्छेषिणः परमात्मनस्त्वत्तो न्यूनो भवतीत्यर्थः । अथशब्दस्समुच्चये 'अथाथो संशये स्याताम्' इत्युक्रम्य ‘कार्त्स्न्यारम्भसमुच्चये' इति मेदिनी । तादृशः उक्तरीत्या भवदपकृष्टो भवन्नपि सत्तम एवेति वर्ण्यते न त्वपकृष्ट इति ।

स्वोज्जीवनेच्छा यदि ते स्वसत्तायां यदि स्पृहा ।
आत्मदास्यं हरेस्स्याम्यं स्वभावं च सदा स्मर ॥