पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
197
अप्रस्तुतप्रशंसासरः (२९)

अस्यैव पद्यस्य ‘लङ्कागतभूमिसुतातनुलग्नक्षोणिरेणुकणनिकराः’ इति पाठान्तरं, तदा ‘भूमिशय्या विवर्णाङ्गी’ इत्युक्तरीत्या लङ्कावस्थानावसरे भगवत्यास्सीताया दिव्यमङ्गळविग्रहस्य भूरेणुसंबन्धः । अभिषेकजलैरित्यनेन ‘ततस्सीतां शिरस्स्नाताम्' इति रावणवधानन्तरभाविमङ्गळस्नानं च विवक्षितम् । अन्यत्तु तुल्यं पूर्वेण ॥

 यथावा--

 अम्बुधिसुते सितद्युतिरम्ब त्वद्वदनशेषभूतोऽसौ । यत्सर्वदास्यलक्ष्मीं संपूर्णतयैव वहति नेतरथा ॥ ९६४ ॥

 अम्बुधिसुते! हे अम्ब! सितद्युतिः इन्दुः त्वद्वदनस्य शेषभूतः ‘शेषः परार्थत्वात्’ इत्युक्तलक्षणशेषभावमापन्नः । यत् यस्मात् असौ सितद्युतिः अस्येति शेषः । सर्वदास्यलक्ष्मीं सर्वं 'अहं सर्वं करिष्यामि’ इत्युक्तप्रकारं सर्वदेशकालावस्थोचितं दास्यं कैङ्कर्यं तस्य लक्ष्मीं संपदं संपूर्णतयैव अवैकल्येनैव वहति । नेतरथा न तु वैकल्येन । पक्षे यत् यस्मात् सर्वदा अस्य त्वद्वदनस्य लक्ष्मीं शोभां आस्यलक्ष्मीं मुखश्रियमिति वा संपूर्णतयैव वहति, इतरथा तु न । पूर्णस्यैवेन्दोस्तत्साम्यं न तु विकलस्येति भावः । अत्राप्रस्तुतेन सितद्युतेस्संभाव्यमानेन शेषत्वेन तच्छेषिणः प्रस्तुतस्य श्रीवदनस्य रामणीयकसाम्राज्योत्कर्षः प्रतीयते । अत्र श्रीवदनचन्द्रमसोर्न कार्यकारणभावादिसंबन्धः, किंतु शेषशेषिभावः ॥

 एवमुपमानोपमेयाववलम्ब्य तत्र कविकल्पितकार्यकारणभावनिबन्धने अप्रस्तुतप्रशंसे दर्शिते । ततोऽन्यत्रापि दृश्यते--