पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२०५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
195
अप्रस्तुतप्रशंसासरः (२९)

 दुग्धरसः क्षीररसः दुग्धः प्रपूरितो रेचितः रसः स्वादिमा यस्य स तथोक्तः । मोचा कदळीफलम् । मोचा शाल्मलीफलं तद्वन्नीरसेति भावः । उभयत्र ‘फले लुक्' इति वैकारिकाणो लुक् । मोचायाः फलं मोचेति विग्रहः । ‘कदळ्यां शाल्मलौ मोचा’ इति रत्नमाला । सुधा अमृतं सुधा लेपचूर्णः स्नुहीक्षीरं वा तद्वत्कटुरिति भावः । ‘सुधा लेपोऽमृतं स्नुही' इत्यमरः । स्पष्टमन्यत् । अत्र दुग्धरसादीनां तिरस्काररूपकार्येण तत्कारणभूतजगदीश्वरीवचसस्स्वादिमोत्कर्षो गम्यते । कार्यकारणभावश्चेह ज्ञानयोः । तेन नीरसत्वादेर्दुग्धरसादिगतत्वेन ज्ञायमानस्य स्वरूपतस्तद्वचनरसाजन्यत्वेऽपि न क्षतिः ।

 अर्थस्य कार्यत्व इव बुद्धेः कार्यत्वेऽपि कार्यनिबन्धनत्वं न हीयत इतीदृशान्यपि कार्यनिबन्धनाप्रस्तुतप्रशंसायामुदाहृतानि चिरन्तनैरित्यस्माभिरप्युदाहार्यन्त । वस्तुतस्तु तदतिरेकेऽपि न दोषः । न ह्यप्रस्तुतप्रशंसायां प्रस्तुताप्रस्तुतयोः पञ्चविध एव संबन्ध इति नियन्तुं शक्यते । संबन्धान्तरेष्वपि तद्दर्शनादिति दीक्षिताः ॥

 यथा--

 त्वद्दिव्यकीर्तिमुक्ताफलस्य बिलशयकुलेशशैलेन्दो । विपुलौ शुक्तिकपालौ द्यावाभूमी विभावयामि परम् ॥ ९६१ ॥

 अत्र ह्यप्रस्तुतयोराधारभूतयोर्द्यावाभूम्योर्भगवत्कीर्तिमुक्ताफलकपालत्वोत्प्रेक्षणेन तदाधेयस्य प्रस्तुतस्य भगवत्कीर्तिमुक्ताफलस्य महीयस्त्वादिकं प्रतीयते । न च शुक्तिमुक्ताफलयोः कार्यकारणभावादिसंबन्धोऽस्ति, किंत्वाधाराधेयभाव एव ॥