पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२०४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
194
अलंकारमणिहारे

 यथावा--

 त्वद्वादान्यकनिशमनविशमितमाना विमुञ्चमाना शम् । भूत्वाऽथ विवर्णमुखा शबला कमलालयेऽभवद्विबला ॥ ९५९ ॥

 हे कमलालये ! शबला कामगवी शबलाशब्दश्च । त्वद्वादान्यकस्य निशमनेन विशमितः मानः अहं महावदान्येति चित्तसमुन्नतिः यस्यास्सा तथोक्ता । अत एव शं स्वोत्कर्षज्ञानजन्यं सुखं, पक्षे शकारं विमुञ्चमाना त्यजन्ती । मुञ्चतिस्स्वरितेत् । अत एव विवर्णं निस्तेजस्कं मुखं, पक्षे वि इत्याकारकवर्णं एव मुखं आदिर्यस्यास्सा तथोक्ता सती विबला दुर्बला अभवत् । भग्नोत्साहतया निश्शक्तिरभूदित्यर्थः । न ह्युत्साहादन्यद्बलमस्ति । यथोच्यते — ‘नास्त्युत्साहात्परं बलम्' इति । पक्षे शबलाशब्दः शकारोत्सारणेन तत्रैव विकारन्यसनेन च विबलेति निरपद्यतेत्यर्थः । अत्र भगवत्याश्श्रियो महौदार्ये वर्णनीयत्वेन प्रस्तुते सुपर्वधेनुगर्वशान्त्यादिकमप्रस्तुतमौचित्यात्संभाव्यमानं कार्यं वर्णितम् । इदं च ‘आदौ सुमुखाविबुधैः, विहरन्त्या दिवि भवतः' इत्यादिपूर्वोदाहरणेष्विव न वस्तुकार्यं, किन्तु ‘तत्केशपाशं प्रसमीक्ष्य कुर्युर्वालप्रियत्वं शिथिलं चमर्यः’ इत्यत्र तन्निरीक्षणकार्यवदौदार्यनिशमनकार्यम् ॥

 यथावा--

 दुग्धरसो दुग्धरसो मोचा मोचा सुधा सुधा भवति । द्विरसनगिरिपतिरमणी सरसवचस्स्याद्यदि श्रवणपथगम् ॥ ९६० ॥