पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
193
अप्रस्तुतप्रशंसासरः (२८)

तिर्न चेत् किं नु जीवेत् । ताकारवत् वायुः इत्याकारकवर्णसमुदायस्यापि लोपे शब्दस्वरूपस्थितिरेव दुर्लभेति भावः । अत्राप्रस्तुतेन वातायुपराजयादिकार्येण संभाव्यमानेन तत्कारणभूतप्रस्तुतजगज्जननीनयनसुषमाद्यतिशयः प्रतीयते ॥

 यथावा--

 आदाय चौर्यतस्तव वादान्यकसंपदं स्थितोऽपि दिवि । निर्जरपापस्समजन्यपि निर्जरपादपो हरेऽदान्तः ॥ ९५८ ॥

 हे हरे! निर्जरपादपः देवतरुः दिवि स्वर्गे स्थितोऽपि स्वतस्सिद्धस्वर्लोकावस्थानोऽपि तव वदान्यकसंपदं चौर्यतः स्तेयेन आदाय त्वद्वादान्यकसंपच्चौर्याद्विना अस्य इयदपि वा औदार्यं कुतो भवेदिति भावः । अदान्तः केनापि राज्ञा अपराधानुगुणमदण्डितः ‘वा दान्त' इत्यादिना दमेः क्तान्ततया निपातः । ‘दान्तस्तु दमिते, साहसं तु दमो दण्डः’ इति चामरः । निर्जरं दुर्जरं पापं यस्य स तथाभूतः समजनि भुवि क्वापि जात इत्यर्थः । राजदण्डितत्त्वे--

राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा ॥

इति स्मरणाच्छोधितपापत्वं स्यात् । अतथाभूततया निर्जरपापः क्वापि जात इति भावः । पक्षे निर्जरपादपशब्दः दः दकारः अन्ते मध्ये यस्य सः दान्तः स न भवतीत्यदान्तः । मध्ये दकारविधुरस्सन् निर्जरपाप इति निष्पन्न इत्यर्थः । अत्राप्रस्तुते निर्जरपादपस्य चौर्यप्रयुक्तनिर्जरपापतावाप्तिकार्येण संभाव्यमानेन तत्कारणभूतभगवद्वादान्यकमहिमातिशयः प्रस्तुत एवावगम्यते ॥

 ALANKARA II
25