पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
192
अलंकारमणिहारे

खवर्णौ श कु इति वर्णौ येषां ते तथोक्ताः । अर्थगतबहुत्वस्य शब्दे आरोपः । कुशला भूत्वा । शकुला इति शब्दः आद्ययोर्वर्णयोर्वैपरीत्ये कुशला इति निष्पन्न इत्यर्थः । जीवनं जलं अविन्दन् । तत्र मग्ना इति यावत् । अत्राप्रस्तुतशकुलगतचौर्यादिकार्येण तत्कारणप्रस्तुतलक्ष्मीनयनलावण्यादिसमृद्धिः प्रतीयते ॥

 यथावा--

 त्वन्नयनपराभूतो वातायुर्जननि दृश्यतापगमात् । वायुसखो भूत्वाऽऽनीत्किं नु स वायुस्थितिर्न चेज्जीवेत् ॥ ९५७ ॥

 हे जननि! वातायुः हरिणः वातायुशब्दश्च त्वन्नयनपराभूतस्सन् अत एव दृश्यतापगमात् दर्शनीयतापायाद्धेतोः वायुसखो भूत्वा वायुवददृश्यो भूत्वेति भावः । यद्वा-- दृश्यतापगगमात् अदृश्यतां प्राप्य ल्यब्लोपे पञ्चमी । वायुसखः भूत्वा वायुतुल्यवेगः पलायितो भूत्वेति यावत् । अथवा-- दृश्यः प्रत्यक्षः यस्तापः तस्य गमात् प्राप्तेः वायुसखः अग्निः भूत्वा अग्निवत्तापमयो भूत्वेत्यर्थः । शब्दपक्षे दृश्यः यः ता इति वर्णः तस्य अपगमात् वायुसखः । वायु इत्याकारकवर्णाभ्यामेव युक्त इत्यर्थः । भूत्वा आनीत् प्राणीत् । अन्यत्र सत्तामलभतेत्यर्थः । सः वा आयुस्स्थितिरिति छेदः। सः वातायुः वाशब्द एवशब्दार्थकः । ‘स्युरेवंतुपुनर्वैवेत्यवधारणवाचकाः' इत्यमरः । आयुस्स्थितिर्वा आयुश्शेष एव न चेत् जीवेत्किंनु न जीवेदेव । आयुस्स्थितेर्दुरपनयत्वादेवेदृशं पराभवं प्राप्तोऽप्यजीवदित्यर्थः । शब्दपक्षे तु-- सः वातायुशब्दः वायुस्थितिः वा युः इत्याकारकवर्णस्थि-