पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
191
अप्रस्तुतप्रशंसासरः (२८)

 हे जगज्जननि! राजहंसः क्षीबः मत्तोऽपि त्वद्भतिलीलाऽवमाननात्प्रागिति भावः । त्वद्भतिलीलया अवमतः । अनेन स्त्रीपराजितत्वद्योतकेनातिमात्रदूनत्वं व्यज्यते । अत एव विषं गरळं जलं च अलं पर्याप्तं यथा स्यात्तथा सेवित्वा पीत्वा, पक्षे-- विगळितषकारं यथातथा सेवित्वालमित्यत्र लं इति च्छेदः । लं लकारं सेवित्वा प्राप्य साध्वेव न तु यथाकथंचित् क्लीबत्वं षण्डत्वं प्रथयति स्म । यः कश्चिद्वा पुरुषमानी परैः परास्तश्चेदाश्वस्य पुनः प्रतिकर्तुं पराक्रमत एव । न तु क्लीबतया विषीदति । अयं तु स्त्रीपराजितो विषं पीतवान्कथं न क्लीबतां प्रथयेतेति भावः । पक्षे-- क्षीबशब्दष्षकारापगमनेन तत्रैव लकारसंश्लेषणे क्लीबतया स्वरूपं प्रकाशयतीत्यर्थः । अत्राप्रस्तुतेन राजहंसस्य श्रीगतिलीलाऽवमतत्वादिना संभाव्यमानेन कार्येण तत्कारणभूतप्रस्तुतश्रीगतिलीलारामणीयकातिशयप्रतीतिः ॥

 यथावा--

 तावकनयनश्रीलवचौर्याच्चकिता जगज्जननि शकुलाः । व्यत्यासितमुखवर्णाः कुशला भूत्वैव जीवनमविन्दन् ॥ ९५६ ॥

 हे जगज्जननि! शकुलाः मीनाः तावकनयनश्रीलवस्य चौर्यात् चौर्यं कृत्वेत्यर्थः । चकिताः भीताः अत एव व्यत्यासितः विपर्यासितः मुखस्य वदनस्य वर्णो यैस्ते तथाभूताः इङ्गालचूर्णभस्मादिलेपनेन परैरज्ञातयथापूर्वमुखवर्णा इति भावः । अत एव कुशला भूत्त्वैव न तु प्रमत्ताः । आपदि ईदृशोपायकरणादपि किमन्यदस्ति कौशल्यमिति भावः । जीवनं प्राणधारणं अविन्दन् । अन्यत्र-- व्यत्यासितौ विपर्ययेण पठितौ मु-