पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
189
अप्रस्तुतप्रशंसासरः (२८)

त्पलमाला । शरीरभावित्वं शरीरसत्तां विन्दति । ‘सतां माने म्लाने' इत्युक्तरीत्या शरीरत्यागावश्यंभावेऽपि तमकृत्वा ‘अथवा दूरगमनम्’ इति द्वितीयपक्षावलम्बनेन शरीरमधार्षीदित्यर्थः । पक्षे-- विभावरीशशब्दः अर्धश्शिराः निपतन् प्रतिलोमतां प्रपद्यमान इति यावत् । च्यावितः च्युतिं प्रापितः वः वकारः येन स तथोक्तः रवर्णः रेफः यस्मिंस्तथोक्त इति बहुव्रीहिगर्भो बहुव्रीहिः । वकारमुत्सार्य तत्रैव रेफः प्रापित इत्यर्थः । शरीरभावित्वं शरीरभावीत्यानुपूर्वीमत्त्वं विन्दति । विभावरीशशब्दस्योपपादितरीत्या तथा निष्पत्तेरिति ध्येयम् । शब्दार्थयोस्तादात्म्यं तु न विस्मर्तव्यम् । इह विभावरीशस्योपमानभूतस्याप्रस्तुतत्वम् । भगवद्यशसश्चोपमेयभूतस्य प्रस्तुतत्वम् । तथाच विभावरीशगतेन च्यावितवरवर्णत्वादिसंभावनावशोन्मिषितेनाप्रस्तुतेनातिमात्रनिस्तेजस्कतारूपकार्येण किमपि लोकोत्तरं यशोगतमवदातत्वं प्रस्तुतमेव प्रतीयते । अत्र कार्यकारणभावः प्रयोज्यप्रयोजकरूपः । एवमुत्तरत्राप्यस्मिन् प्रकरणे यथायोगं द्रष्टव्यः ॥

 यथावा--

 फणधरधराधरेश्वरकनदधररुचा प्रपद्य मुखभङ्गम् । विद्रुमनिवहो जलधौ विना मुखेनैव लीयते सततम् ॥ ९५३ ॥

 मुखभङ्गं पराभवम् । मुखेन विनैवेति लोकोक्तिः । मुखं दर्शयितुमक्षम एवेति भावः । पक्षे विना वि इत्याकारकवर्णेन मुखेन मुख्यभूतेन उपलक्षितः विद्रुमनिवहः । वाच्यवाचकयोस्तादात्म्यम् । अत्र भगवदधररुचिप्राप्तमुखभङ्गप्रयोज्यतया संभाव्यमानमप्रस्तुतं विद्रुमनिवहस्य जलधिनिलयनरूपं कार्यं त-