पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
180
अलंकारमणिहारे

भद्रात्मनो दुरधिरोहतनोर्विशाल-
वंशोन्नतेः कृतशिलीमुखसंग्रहस्य ।
यस्यानुप्लुतगतेः परवारणस्य
दानाम्बुसेकसुभगस्सततं करोऽभूत् ॥

 अत्र नृपे कस्मिंश्चिद्वर्ण्यमाने भद्रात्मन इत्यादिविशेषणैर्मङ्गळात्मकस्य विशालकुलोद्भवस्यानेकशरसंग्रहशालिनः प्रत्यर्थिनिवारकस्य राज्ञः पाणिरभूदिति प्रकृतवाक्यार्थे प्रकरणसनाथेनाभिधाव्यापारेण शब्दतः प्रतीते पश्चाद्भद्रादिपदसामर्थ्यमहिम्ना भद्रजातीयस्य विशालपृष्ठास्थिसमुन्नतेर्भ्रमरपरीतस्योत्कृष्टगजस्य कर इत्यप्रकृतगजाद्यर्थस्य प्रतीतिस्तावदनुभवसिद्धा । सा च नाभिधाव्यापारेण, प्रकरणादिना तस्य नियन्त्रणात् । अतो व्यञ्जकव्यापारेण तत्प्रतीतिरित्यप्राकरणिकार्थस्य व्यङ्ग्यतया शब्दशक्तिमूलानुरणनोपमाव्यङ्ग्यध्वनिरिति मम्मटोपाध्यायादयः ॥

 दीक्षितास्तु-- प्रकरणादिना प्रकृतार्थाभिधानपर्यवसाने अप्रकृताभिधाने वाक्यस्यासंबद्धार्थकत्वं मा प्रसांक्षीदिति तेन प्रकृतार्थस्योपमा व्यज्यते इति शब्दशक्तिमूलानुरणनव्यङ्ग्या सेति तेषामाशय इत्यभिप्रयन्तः “यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चः तत्प्रकृताप्रकृताभिधानमूलकस्योपमादेरलंकारस्य व्यङ्ग्यत्वाभिप्राया, न त्वप्रकृतार्थस्यैव व्यङ्ग्यत्वाभिप्राया, अप्रकृतार्थस्यापि शब्दशक्त्या प्रतिपाद्यस्याभिधेयत्वावश्यंभावेन व्यक्त्यनपेक्षणात् । यद्यपि प्रकृतार्थे प्रकरणबलाज्झडिति बुद्धिस्थे सत्येव पश्चान्नृपतितद्ग्राह्यधनादिवाचिनां राजकरादिपदानामन्योन्यसन्निधानबलात्तत्तद्विषयशक्त्यन्तरोन्मेषपूर्वकमप्रकृतार्थस्स्फुरेत् । नैतावता तस्य व्यङ्ग्यत्वम् । शक्त्या प्रतिपाद्यमाने सर्वधैव व्यक्त्यनपेक्षणात् पर्यवसिते प्र-