पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
179
श्लेषसरः (२८)

प्तत्वम् । अलंकारान्तरत्वपुरस्कारेणेति चेत् एवं तर्हि बाध्यसामान्यचिन्तया स्वविषये प्राप्तस्य सर्वस्य बाधापत्तौ श्लिष्टपरंपरितरूपकस्य श्लिष्टसमासोक्तेश्चोच्छेद एव स्यात् । तस्मात् श्लेषस्य नापवादकत्वं संकीर्णत्वं तु स्यादिति ॥

 अन्ये तु-- अलंकारा हि प्राधान्येन चमत्काराधायकाः स्वांस्वामाख्यां लभन्ते । त एव परोपकारकतया वर्तमानास्तां त्यजन्ति । यथा—‘ रराज भूमौ वदनं मृगाक्ष्या नभोविभागे हरिणाङ्कबिम्बम्’ इत्यत्र प्रकृताप्रकृतात्मनामेकधर्मसंबन्धो दीपकाख्यां लभते । त्यजति च ‘राजते वदनं तन्व्या नभसीव निशाकरः' इत्यत्र । अत एवोच्यते ‘प्राधान्येन व्यपदेशा भवन्ति’ इति । एवंचालंकारान्तरोपस्कारकतया स्थितश्लेषः कथंकारं स्वगृहस्थ इव श्लेषालंकारव्यपदेशं वोढुमीष्टामिति बाध्यप्राय एवेत्यप्याहुः ॥

 अयं चोपमेव म्वतन्त्रोऽपि तत्रतत्र सर्वालंकारानुग्राहकतया स्थितस्सरस्वत्या नवंनवं सौभाग्यमावहन्नानाविधेषु लक्ष्येषु सहृदयैर्विभावनीयः ॥

 इदं चावधेयम्-- यत्र प्रकृताप्रकृतयोर्विशेष्ययोरपि श्लिष्टपदोपात्तत्वं स तु ध्वनेर्विषय इति प्राञ्चः । तथाहि-- प्रकृताप्रकृतश्लेषोदाहरणे ‘असावुदयमारूढः' इत्यादौ न श्लेषोऽलंकारः, अर्थद्वयस्याभिधाव्यापारेण तुल्यवृत्तिकत्व एव तस्योन्मेषात् । अत एव प्रकृतश्लेषे अप्रकृतश्लेषे च प्रकरणादीनामभिधानियामकानामभावादर्थद्वयेऽपि शब्दस्य तुल्यवृत्तित्वात् श्लेषालंकारः । इह तु प्रकृतार्थे प्रकरणादिना नियन्त्रितायास्तस्या अप्राकरणिकेऽर्थे कुण्ठितप्रसरतया शब्दो व्यञ्जनया वृत्त्या तमर्थमवगमयतीति शब्दशक्तिमूलानुरणनतुल्यव्यङ्ग्यध्वनिः ॥