पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
164
अलंकारमणिहारे

‘प्रियस्थिर' इत्यादिना वरादेशः । यदुषु वरीयान् यदुवरीयान् यदुकुलोत्तंसो भगवान् नः चेतः भजतात् हृदि सं निधत्तामित्यर्थः ॥

 पक्षे-- भज तान् नः इति छेदः । नः अस्माकं चेतः ! हे मनः! सर्वं विदन्तीति सर्वविदः तान् विदेः क्विप् । सर्वज्ञानित्यर्थः । शोभनाः गुणाः ‘अष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गळमकार्पण्यमस्पृहा’ इत्यादिगौतमाद्युक्ता महागुणाः येषां ते सुगुणाः तेषु आदिमाः अग्रिमाः तांस्तथोक्तान् आदिशब्दाद्भवार्थे 'अग्रादिपश्चाड्डिमुच्' इति डिमच् । अप्रतिहतप्रभावान् अकुण्ठितमहिमशालिनः । महान् स्वभावो येषां ते तथोक्तान् उत्तमशीलान् दुरन्तं दुरितं नुदन्तीति तथोक्तान्, नुदेः क्विप् । तान् प्रसिद्धान् यदुवरस्य इमे यदुवरीयाः तान् । गहादेराकृतिगणत्वाच्छः । भागवतानित्यर्थः । भज सेवस्व । भजतेः परस्मैपदिनः लोण्मध्यमैकवचनम् । पूर्वत्र लोट्प्रथमैकवचनम् । अत्र सुगुणादिमानित्यादौ पदश्लेषसङ्कीर्ण एकवचनबहुवचनयोः श्लेषः। एवं प्रथमाद्वितीययोर्विभक्त्योरपि । यदुवरीयानित्यादौ तु वचनविभक्तिश्लेषः पूर्ववदेव । इयांस्तु विशेषः--ईयसुन्छरूपतद्धितप्रत्ययान्तप्रकृत्योः तत्रापि उरुवरशब्दरूपपरमप्रकृत्योश्च श्लेष इति ॥

 यथावा--

 व्रजजनतानां न्यरुणस्त्वं वर्षीयानुपप्लवान् शौरे । अपिच गरीयान् दोषान् काळिन्द्याः काळियोद्धृतेर्व्युधुनोः ॥ ९२८ ॥

 हे शौरे! वर्षीयान् ज्यायान् पुराणपुरुष इति भावः ।