पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
7
परिकराङ्कुरसरः (२७)

नयेत् ‘बद्धस्स्वयं किमु विमोचयिता बतान्यम्’ इत्युक्तेरिति भावः । पक्षे--मत्कृतस्वहृन्मध्यबन्धविश्लथनस्यायं नेशीतेति भावः । अत्र नवनीतचोर इति विशेष्यं चौर्यनिष्णातताकूतगर्भं सन्नेत्रमूषणरूपवाच्यार्थोपस्कारकम् । दामोदर इति विशेष्यं बन्धविश्लथनानशिताभिप्रायगर्भं सत्कथंकारं बन्धं धुनुयादिति वाच्योपस्कारकतामश्नुते । अत्र विशेष्यद्वयं भिन्नाभिप्रायकम् ॥

 क्वचित्तु योगमनपेक्ष्य प्रसिद्धिबलादेव व्यञ्जकं भवति विशेष्यम् । यथोक्तमेकावळ्यां--'क्वचित्पुनः प्रसिद्धत्वाद्विशेष्यमतथाभूतं प्रयुक्तमपि तथाभूतमभिप्रायमभिव्यनक्ति’ इति ॥

 यथा--

 न त्रातुं सुत्रामा सत्रारिर्विधिरपीश्वरः खलुमाम् । भवगहनगुहाशयितं नियतं मुचुकुन्दवरद एवेष्टे ॥ ८११ ॥

 अत्र मुचुकुन्दवरद इति विशेष्यं गुहान्तरनिद्राणजनत्राणधुरीणतामभिव्यञ्जयति ॥

 यथावा--

 दूरीकृतसद्दर्शनमूरीकुतमलिनिमाऽहिशिखरीन्दो । दहरगुहाघनतम इह न हरसि किमिमां प्रविश्य चक्रधर ॥ ८१२ ॥

 हे चक्रधर! दूरीकृतं सतां ब्रह्मविदां दर्शनं येन तत्तथोक्तम् । पक्षे सतां नक्षत्राणां दर्शनं येन तत् गुहान्तर्गतस्य घनतमसो नक्षत्रनिर्वर्णनासंभवादिति भावः । ऊरीकृतः मलिनिमा