पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
155
श्लेषसरः (२८)

हं तादृशाशासने कथं न त्रपेयेत्यत्राह-- इहेत्यादिना । इह अस्मिन् लोके तेन श्रीशेन कतिकति त्रपिष्ठा इति योजना । अतिशयेन तृप्राः त्रपिष्ठा जनाः । तृप्रं दुःखमिति माधवः । अयं चात्र तद्वति वर्तते । त्वत्तोप्यतिशयित दुःखा इत्यर्थः । तृप्रशब्दादतिशायनेऽर्थे इष्ठनि ‘प्रियस्थिर' इत्यादिना त्रपीत्यादेशः । अमृतं न गमिताः भूयांस एव निश्श्रेयसं नीताः । त्वं कुतस्तदाशासनाय लज्जस इति भावः । अत्र त्रपधातोः तृप्रशब्दस्य च प्रकृतेः क्रमेण इडाश्लिष्टथासि तिङि इष्ठनि तद्धिते चैकरूप्यम् । एवं प्रत्यययोरप्यैकरूप्यमिति ध्येयम् ॥


अथ प्रत्ययश्लेषः.



प्रकृतिप्रत्ययौघस्यानेकस्य प्रत्ययैर्यदि ।
श्लिष्टैस्सरूपता सोऽयं प्रत्ययश्लेष उच्यते ॥

 यत्रानेकेषां प्रकृतिप्रत्ययसमुदायानां तद्घटकप्रत्ययश्लेषनिमित्तकं सारूप्यं दृश्यते सोऽयं प्रत्ययश्लेषः । इमे च प्रकृतिप्रत्ययश्लेषलक्षणे रुद्रटानुरोधेन वर्णिते । वस्तुतस्तु--

स एष प्रकृतिश्लेषः प्रकृत्योः श्लिष्टता यदि ।
श्लिष्टतायां प्रत्यययोः प्रत्ययश्लेष इष्यते ॥

इत्येतावती एव लक्षणे अलं, काव्यप्रकाशाद्यनुरोधित्वात् । 'विभक्तेर्वैचित्र्यस्य विशेषहतुतया पृथगुपादानात्प्रत्ययपदं तदतिरिक्तपरम्’ इति काव्यप्रदीपकारः ॥