पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१६३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
153
श्लेषसरः (२८)

त्तमैकवचनम् । अयं च लट् षुराशब्दयोगाद्भविष्यदर्थे । ‘यावत्पुरानिपातयोर्लट्’ इति स्मरणात् । अत्र ङि इट् इति सुप्तिङ्प्रत्ययप्रकृत्योः क्रमेण क्यब्यगन्तयोः ण्यद्यगन्तयोः द्दश्येत्यनयोः आस्येत्यनयोश्च प्रकृत्योः श्लेष इति तयोस्सङ्कीर्णता । उभयत्र धात्वैक्येऽपि प्रत्ययभेदकृतं भेदमादाय प्रकृतिश्लेषनिर्वाहः । 'अस्यन्ते वर्णाः येन अस्यते ग्रासो वाऽस्मिन्नित्यास्यम् ।‘असु क्षेपणे’ ‘कृत्यल्युटो बहुळमिति ण्यत्' इत्यमरसुधायाम् । आस्यन्दते आम्लादिना प्रस्रवतीत्यास्यम् । ‘स्यन्दू प्रस्रवणे' 'अन्येभ्योपि दृश्यत इति डः' इत्यपि तत्रैव व्युत्पादितम् । अस्मिन्पक्षे तु आस्ये इत्यत्र धातुभेदात्प्रकृतिभेदः स्पष्ट एवेत्यलम् । न केवलमत्र प्रकृतिमात्रश्लेषः, किन्तु प्रत्ययश्लेषोऽपीति विच्छित्तिविशेषो ज्ञेयः ॥

 न केवलं सुप्तिङ्प्रत्ययापेक्ष एव प्रकृतिश्लेषः, किन्तु तद्धितप्रकृत्यपेक्षोऽपि संभवति ॥

 यथा--

 त्वामाश्रितः प्रथीयांस्तद्विभवश्चापि नाथ तव घृणया । त्वत्प्रतिकूलस्तु भवेत्साधीयांस्तद्विपत्तिनिवहश्च ॥ ९१६ ॥

 हे नाथ ! त्वामाश्रितः पुमान् तव घृणया कृपया प्रथीयान् प्रथा नाम गुणवत्ताप्रख्यातिः साऽस्यास्तीति प्रथावान्

अतिशयेन प्रथावान् प्रथीयान् भवेत् । प्रथाशब्दान्मतुबन्तादीयसुनि ‘विन्मतोः' इति मतुपो लुक् । तद्विभवः भगवदाश्रितस्य विभवोऽपि प्रथीयान् अतिशयेन पृथुः अतिविपुल इत्य-

 ALANKARA II
20