पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
151
श्लेषसरः (२८)

 हे लोकेश्वरदयिते ! करुणारसमेदुरः तव कटाक्षलवः यं पुमांसं विषयं कलयति गोचरयति तं पुमांसं लोके सर्वस्मिन् जने बृन्दयति बृन्दारकं मुख्यं करोति । बृन्दारकशब्दाण्णाविष्ठवद्भावे ‘प्रियस्थिर' इत्यादिना तस्य बृन्दादेशः सर्वोपजीव्यं करोतीत्यर्थः। 'बृन्दारकौ रूपिमुख्यौ’ इत्यमरः । तस्य विभवांश्च बृन्दयति बृन्दानि करोति संपुञ्जयति । तस्मिन्नेव समाहारयतीत्यर्थः । बृन्दशब्दात् ‘तत्करोति' इति णिच् । अत्र बृन्दारकबृन्दशब्दयोर्णिजन्तयोस्तिप्यैकरूप्यम् । आद्ययोरुदाहरणयोश्शुद्धधातुरूपप्रकृत्योरैकरूप्यम् । अनन्तरयोस्तु ण्यन्तनामधातुलक्षणप्रकृत्योरिति वैलक्षण्यं बोध्यम् ॥

 यथावा--

 त्वद्भुक्तशेषमनघं भक्त्याऽच्युत येन भक्ष्यते पुंसा । स ह्यातिवाहिकैरपि हुतवहमुख्यैरितीदमाश्चर्यम् ॥ ९१४ ॥

 हे अच्युत ! अनघं त्वद्भुक्तशेषं येन भक्ष्यते अद्यते स पुमात् अर्चिरादिकैरातिवाहिकैरपि भक्ष्यते हि इत्येतदाश्चर्यम् ॥ सेविष्यत इति तु तत्त्वम् । भगवन्निवेदितशेषप्रसादास्वादनमहिम्ना अर्चिरादिकैरातिवाहिकैरपि मान्यते पुमान् किमुतान्यैरिति भावः ।

निवेदितहविश्शेषं भुक्त्वा भगवतोऽनघम् ।
व्यपोह्य सर्वपापानि मोक्षमृच्छत्यसंशयम् ॥

इति भगवच्छास्त्रीयप्रमाणार्थ इहानुसन्धेयः । अत्राद्येऽर्थे भक्षधातोः कर्मणि यकि लट्, द्वितीये भजधातोर्लृटि स्यप्रत्यये