पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
150
अलंकारमणिहारे

पपा तस्याश्च भाग्यं कियदिवेति योजना । ‘धेट् पाने' लुञ् ‘विभाषा घ्राधेट्शाच्छासः’ इति वैकल्पिकस्सिचो लुक् । अत्र धाञ्धेटोः प्रकृतेरैकरूप्यम् ॥

 यथावा--

 वरयति विनतानखिलानुरगधराधरकृपा यशश्चैषाम् । क्षोदयति रिपूनेषां तदीयसेनाश्च यदिह निश्शेषम् ॥ ९१२ ॥

 उरगधराधरकृपा कर्त्री अखिलान् विनतान् वरान् श्रेष्ठान् करोति वरयति । वरशब्दाण्णिच् । एषां विनतानां यशः कीर्तिं च उरुं विपुलं करोति वरयति । उरुशब्दाण्णाविष्ठवद्भावे ‘प्रियस्थिर’ इत्यादिना वरादेशः । तत्र हेतुमाह-- क्षोदयतीत्यादिना । यत् यस्मात् एषा भगवत्कृपा एषां विनतानां रिपून् क्षुद्रान् कृपणान् करोति क्षोदयति । क्षुद्रशब्दाण्णाविष्ठवद्भावे ‘स्थूलदूर’ इत्यादिना तस्य यणादिपरलोपः पूर्वस्य गुणश्च । तदीयाः विनतरिपुसम्बन्धिनीः सेनाश्च निश्शेषं यथा स्यात् तथा क्षोदं करोति क्षोदयति । क्षोदशब्दाण्णिच् । चूर्णयतीत्यर्थः । ‘चूर्णे क्षोदः' इत्यमरः । अत्र वरोरुशब्दयोः क्षुद्रक्षोदशब्दयोश्च णिजन्तयोस्तिप्यैकरूप्यात्प्रकृतिश्लेषः ॥

 यथावा--

 कलयति विषयं तव यं करुणारसमेदुरः कटाक्षलवः । लोकेश्वरदयिते तं लोके बृन्दयति तस्य विभवांश्च ॥ ९१३ ॥