पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
6
अलंकारमणिहारे

क्रमा यस्येति व्युत्पत्त्या योगबलात्त्रिपुराभिभवपटयिस्त्वमभिव्यञ्जयन्त्रिविक्रमेति विशेष्यं वाच्योपस्कारकतां प्रतिपद्यते ॥

 यथवा--

 बलिसुतबाहादशशतविदलनकृत्को विना सहस्रारम्। जलरुहकुलदलदशशतविदलनकृत्कोऽन्तरा सहस्रांशुम् ॥ ८०९ ॥

 अत्र प्रधानवाक्यार्थो दृष्टान्तालंकाररूपः । तत्र बिम्बप्रतिबिम्बरूपयोर्वाक्यार्थयोर्विशेष्यभूतौ सहस्रारसहस्रांशुशब्दौ बाहादलसहस्रविदलनधुरीणतां व्यञ्जयन्तौ वाच्योपस्कारकौ ॥

 यथावा--

 एष नवनीतचोरो मूषति नेत्रं मम स्वहृन्मध्येऽमुम् । सिनुयां बन्धं कथमिव धुनुयाद्दामोदरोऽयमीक्षेयाहम् ॥ ८१० ॥

 एष नवनीतचोरः नन्दनन्दनः मम नेत्रं नयनं मूषति ‘रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्’ इत्युक्तरीत्याऽपहरति । ‘मूष स्तेये' भौवादिकः । अंशुकमपहरतीत्यपि गम्यते । ‘नेत्रं वस्त्रेऽक्ष्णि' इति रत्नमाला । अमुं एवं नेत्रहरं स्वहृन्मध्ये स्वमनोऽन्तरे सिनुयां ध्यायेयमिति यावत् । पक्षे स्वहृतां परस्वापहारिणां मध्ये सिनुयां अस्यापि चोरत्वादिति भावः । अयं एवं बन्धनं प्रापितः दामोदरः बन्धं मम भवबन्धं कथमिव धुनुयात् अहं ईक्षेय मामकभवबन्धविमोचनक्रमममुष्य कीदृगिति परीक्षेयेति भावः । अथवा- स्वयमेव बद्धः कथं मम बन्धमप-