पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१५९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
149
श्लेषसरः (२८)

 यः अजामिळादिः अवशात् हठात् त्वां नाम्ना नारायणाद्यभिधानेन जुहाव आहूतवान् ‘ह्वेञ् स्पर्धायां शब्दे च' इति भौवादिकाद्धातोर्लिट् । ‘अभ्यस्तस्य च' इत्यभ्यस्तीभविष्यतो ह्वेञस्संप्रसारणं, ततो द्वित्वम् । यश्च यजमानः उपरिचरवसुप्रभृतिः नियमात्--

ये तु वाकनिषन्निष्ठास्तत्तत्संस्कारसंस्कृताः ।
ते वै भागवताश्शुद्धा वासुदेवैकयाजिनः ।

इत्युक्तप्रक्रियया शुद्धयाजित्वरूपपारमैकान्त्यादित्यर्थः । अध्वरेषु ते तुभ्यं जुहावेति योजना । हुतवान् त्वामुद्दिश्य हविर्दत्तवानित्यर्थः । ‘हु दानादनयोः' अस्माज्जौहोत्यादिकाद्धातोर्लिट् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यत इत्याहुः । अत्र लिटि ह्वयतिजुहोत्योः प्रकृतेरैकरूप्यमिति तिञ्प्रत्ययापेक्षप्रकृतिश्लेषोऽयम् ॥

 यथावा--

 तस्याः कियदिव भाग्यं या त्वां गर्भे जगन्निवासाधात् । यस्याश्च शिशुरिव भवान् स्तन्यं शौरे जगत्सविता ॥ ९११ ॥

 हे जगन्निवास! इदं च संबोधनं विवक्षितगर्भधारणार्हत्वस्याश्चर्यावहत्वं द्योतयितुम् । या देवकीति भावः । त्वां गर्भे अधात् दधार दधातेर्लुङ् । तस्याः भाग्यं कियत् अपरिच्छिन्नमित्यर्थः । इवशब्दो वाक्यालंकारे । जगतां सविता जनकः इदमपि विवक्षितस्तन्यपानाद्भुतत्वव्यञ्जनाय । शिशुरिव प्राकृतस्तनंधय इव यस्याः यशोदाया इति भावः । स्तन्यं अधात्