अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । |
इति गानात् । इदं तु उक्तं भगवतो गुणजातं सर्वमपि बहुधा 'बहुभ्यश्श्रोतव्यं बहुधा श्रोतव्यम्’ ।
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यो मतिमान्नरः । |
इत्युक्तप्रक्रियया बहुप्रकारेण । विशेषवित्तु तुरवधारणे । शास्त्रार्थतत्त्ववेत्तैव विद्यात् जानीयात् । नान्यः
यस्य नास्ति स्वयं प्रज्ञा केवलं तु बहुश्रुतः । |
इत्युक्तप्रकारः स्थूलमतिरिति भावः । बहवो ये धातुविशेषाः तद्विदेव अमुमर्थं जानीयात् । नान्यः अशाब्दिक इत्यर्थोप्युपस्कार्यः । अत्र क्रमेण ‘मृड सुखने' तौदादिक, ‘मृष तितिक्षायाम्’ दैवादिकः, 'मृजू शुद्धौ’ आदादिकः, ‘मृश आमर्शने । तौदादिकः । एषां चतुर्णां धातूनां विपूर्वकाणां क्विप्यैकरूप्यम् । पूर्वोदाहरणे त्रयाणामैकरूप्यमिति ध्येयम् । अत्र विपूर्वकात् मृडेः क्विपि चर्त्वे मृषेः जश्त्वेन डत्वे चर्त्वे च मृजिमृशिभ्यां तु ‘व्रश्च' इत्यादिना षत्वे जश्त्वेन डत्वे चर्त्वे विमृडिति तुल्यं रूपम् ॥
एवमाद्यस्सुप्प्रत्ययापेक्षः प्रकृतिश्लेषो निरूपितः । तिञ्प्रत्ययापेक्षो द्वितीयः प्रकारो यथा--
अवशाद्यस्त्वां नाम्ना जुहाव यश्चाध्वरेषु नियमात्ते । फलमुभयोरप्यनयोर्जलजाक्ष निरङ्कुशो बत ददासि ॥ ९१० ॥