पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१५७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
147
श्लेषसरः (२८)

इति धातवः क्रमेण तुदादौ क्र्यादौ दिवादौ च पठिताः । तद्रूपाः प्रकृतीः क्विप्प्रत्ययप्रकृतीः जानातीति तथा । बुधः परावरतत्त्ववित् शाब्दिकश्च जानाति । भवपाशबन्धं मुटतीति वा मुष्णातीति वा विग्रहे क्विपि अयं शब्दो भगवद्विषयः भवपाशबन्धेन मुह्यतीति विग्रहे क्विपि निष्पन्नो भगवदन्यविषयः तयोरत्र श्लेष इति तदभिप्रायं वेत्तीत्यर्थः । अत्र मुटमुषमुहीनां क्विप्प्रत्यये सारूप्यम् । मुटिमुष्योर्जश्त्वचर्त्वे । मुहेस्तु ‘वा द्रहमुह’ इति वैकल्पिकघत्वाभावे ‘हो ढः' इति ढत्वे जश्त्वचर्त्वे इति बोध्यम् ॥

 यथावा--

 त्वं विमृडसि स्वतोऽच्युत भक्तततेरागसा तथाऽघानाम् । योगक्षेमाणामपि बहुधातुविशेषवित्त्विदं विद्यात् ॥ ९०९ ॥

 हे अच्युत! त्वं स्वतः स्वभावादेव विमृट् विशेषेण मृडति सुख्यतीति तथोक्तः । अपरिच्छिन्नसुखस्वरूप इत्यर्थः । 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म यद्वाव कं तदेव खं यदेव खं तदेव कम्’ इत्यादौ तथा श्रवणात् । तथा भक्तततेः तत्संबन्धिनां इदमुत्तरत्राप्यन्वेति । आगसां अपराधानां विमृट् विशेषेण मृष्यति क्षमत इति विमृट् । महापराधसहिष्णुरित्यर्थः । किंच-- अघानां तदीयानां दुःखानां विमृट् । विशेषेण मार्ष्टि शोधयतीति तथा । सकलव्यसननिश्शेषयितेत्यर्थः। अपिच योगाः अलभ्यलाभाः क्षेमाः लब्धपरिपालनानि तेषां विमृट् विमृशतीति विमृट् विचारयितेत्यर्थः ।