पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
144
अलंकारमणिहारे

भवाब्धिं न तरेत्स आत्महा' इत्यादिप्रयोगा व्याख्याताः । व्यसनैः ‘मृगयाऽक्षा दिवास्वप्न’ इत्याद्युक्तैः कामजैर्दशाभिः, ‘पैशुन्यं साहसं द्रोहः’ इत्याद्युक्तैरष्टभिः क्रोधजैश्च दोषैः रोदिति अश्रु विमुञ्चतीति तथोक्तः । रुदेरश्रुविमोचनार्थकात्क्विप्, चर्त्वम् । उक्तविधव्यसनवर्गक्षुभितहृदयो भवेत् । रावणादिवदिति भावः । 'व्यसनं विपदि भ्रंशे दोषे कामजकोपजे' इत्यमरः । अत्र रुधिरुद्योः क्विच्निमित्तकं सारूप्यमिति प्रकृतिश्लेषः । सुकृतीत्यादौ पदश्लेषोऽपि ।

यथावा

 साधुसमित्यग्रेसरयुद्यो बहुशास्त्रविज्जयति शत्रून् । स हि विरचितशुभरक्षोवैरियशस्तुद्भवेन्महाधीरः ॥ ९०६ ॥

 अत्र भगवद्भक्तो विद्वान् प्रस्तुतः अप्रस्तुतस्तु शूरः तयोः श्लेषः । यः पुमान् साधूनां विदुषां समितौ सभायां ये अग्रेसराः तैर्यौतीत्यग्रेसरयुत् । ‘यु मिश्रणे’ इत्यस्मादादादिकाद्धातोः क्विपि तुक् । सत्सङ्गशालीत्यर्थः । अन्यत्र साधु यथा स्यात्तथा समितौ युद्धे ‘समितिस्सांपराये स्यात्सभायां सङ्गमेऽपि च' इति मेदिनी । ये अग्रेसराः तैः युद्ध्यत इति तथा । युद्ध्यतेः क्विप् । जश्त्वचर्त्वे । बहूनि शास्त्राणि वेत्तीति तथा । विदेः ‘सत्सूद्विष’ इत्यादिना क्विप् । चर्त्वम् । पक्षे शस्त्राणां ममूहश्शास्त्रं बहु यच्छास्त्रं तेन विध्यतीति तथा । विध्यतेः क्विपि जश्त्वचर्त्वे । शत्रून् कामादिनित्यवैरिणः, पक्षे अरातीन् जयति अभिभवति । सः महाधीरः महाविद्वान् अतिधैर्यवांश्च पुमान् । ‘धीरस्स्यात्त्रिषु पण्डिते । स्वच्छन्दे धैर्ययु-