पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
143
श्लेषसरः (२८)

प्रकृतिश्लेषः.


अश्लिष्टप्रत्ययकृता प्रकृत्योश्चेत्सरूपता ।
स एष प्रकृतिश्लेषो द्विधा सुप्तिङपेक्षया ।

 नानारूपयोः प्रकृत्योः अश्लिष्टप्रत्ययकृतं चेत्सारूप्यं स प्रकृतिश्लेषः । द्विवचनं बहूनामप्युपलक्षकम् । स च सुप्रत्ययापेक्षस्तिङ्प्रत्ययापेक्षश्चेति द्विप्रकारकः । अश्लिष्टेति प्रत्ययविशेषणं प्रत्ययश्लेषे अतिप्रसङ्गवारणाय । प्रत्ययश्लिष्टतायां स एव हि भविष्यति ॥

 तत्राद्यो यथा--

 चित्रं हरिकृपया यः कुपया यो देवतान्तरस्यापि । वृद्धिं भजेत स पुमान् सुकृतीशस्तोमहाव्यसनरुत्स्यात् ॥ ९०५ ॥

 यः हरिकृपया वृद्धिं भजेत स पुमान् सुकृती पुण्यवान् शस्तः समस्तलोकस्तुतः महान्ति व्यसनानि विपदः रुणद्धीति महाव्यसनरुत् । रुधेः क्विपि जश्त्वचर्त्वे । विपल्लेपविधुरस्स्यात् । विभीषणादिवदिति भावः । योऽपि देवतान्तरस्य कृपया वृद्धिं भजेत सोऽपि पुमान् उक्तविध एव भवेदिति चित्रम् । वस्तुतस्तु सुकृतीशस्तोमहेतिच्छिन्नं समस्तमिदं पदम् । सुकृतीशाः पुण्यवदग्रगण्याः तेषां स्तोमं व्यूहं हन्तीति सुकृतीशस्तोमहा ‘अन्येभ्योऽपि दृश्यते' इति हन्तेर्विच् । न तु क्विप् ‘ब्रह्मभ्रुणवृत्रेषु क्विप्’ इत्यत्र चतुर्विधनियमाश्रयणात् । एतेन ‘मातृहा वै त्वमसि पितृहा वै, विश्रुतात्मा सुरारिहा, पुमान्