पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१५२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
142
अलंकारमणिहारे

वेदये । ‘निवेदयीत स्वात्मानं विष्णावमलतेजसि' इत्यत्रेव संप्रदानस्याधारत्वविवक्षया अपत्यशब्दात्सप्तमी । अत्र पदलिङ्गश्लेषावपि द्रष्टव्यौ ॥

 यथावा--

 सुन्दर्यग्रण्यां परदैवतवामभ्रुवामुदारधियाम् । अञ्जलयो निपतन्तस्सञ्जनयन्त्यखिलसंपदं तासाम् ॥ ९०४ ॥

 अत्र षष्ठीसप्तम्योर्विभक्त्योः श्लेषः, तद्बहुवचनैकवचनयोरपि । सुन्दरीणां अग्रण्यां अग्रगण्यायाम् । उदारधियां महाप्रज्ञायां वदान्यमनीषायां वा । परदैवतस्य भगवतः वामभ्रुवां ललनायां लक्ष्म्याम् । सर्वत्र 'ङेराम्नद्याम्नीभ्यः' इति ङेरामादेशः । निपतन्तः श्रीविषये अहमहमिकया समुदयन्त इत्यर्थः । तासां सुन्दर्यग्रण्यामित्यादिविशेषणविशिष्टानामित्यर्थः । तासामित्युक्त्या प्रदर्शितानां सप्तम्येकवचनान्तानां पदानां षष्ठीबहुवचनान्तत्वं ज्ञापितम् । तथाहि-- सुन्दरीणां अग्रण्यां अग्रगण्यानां, अनद्यन्तत्वादामो न नुट् । उदारधियां महामतीनाम् । पराणि च तानि दैवतानि चतुर्मुखादयो देवाः तेषां याः वामभ्रुवः महिलाः पराश्च ताः दैवतवामभ्रुवश्चैति वा तासां ‘बृन्दारका दैवतानि' इत्यमरः । वाणीरुद्राणीन्द्राणीप्रभृतीनां सुरसुदतीनामित्यर्थः । उभयत्र 'वाऽमि’ इति नदीसंज्ञाया विकल्पितत्वेन तदभावादामो न नुट् । अखिलसम्पदं जनयन्तीति योजना ॥