पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
141
श्लेषसरः (२८)

 यथावा--

 भवमयपाशलवित्रे भजमानानां विशालशुभनेत्रे। निखिलचराचरधात्र्या निजमात्मानं निवेदयेपत्ये ॥ ९०३ ॥

 अत्रापि पूर्ववदेव श्लेषः । भगवत्पक्षे-- भजमानानां भक्तानां भवमयस्संसाररूपः यः पाशः तस्य लाविता छेत्ता तस्मै तथोक्ताय, लूञस्तृच् । विशालं विपुलं शुभं निश्श्रेयसरूपं कल्याणं तस्य नेता प्रापयिता तस्मै, णीञस्तृच् । निखिलचराचरधात्र्याः सकललोकजनन्याः श्रियः पत्ये भर्त्रे निजं आत्मानं निवेदये अर्पये--

सर्वलोकशरण्याय राघवाय महात्मने ।
निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् ॥

इत्यत्रेव ‘क्रियया यमभिप्रैति सोऽपि संप्रदानम्’ इत्युक्तरीत्या संप्रदानसंज्ञायां पतिशब्दस्य चतुर्थी ।

 श्रीपक्षे-- भजमानानां भवमयपाशस्य लवित्रं दात्रं तस्मिन् । ‘अर्तिलूधूसूखनसहचर इत्रः’ इति लूनातेरित्रच् ‘दात्रं लवित्रम्' इत्यमरः । छेत्तरीत्यर्थः । विशाले शुभे नेत्रे यस्य तस्मिन् । निखिलचराचरधात्र्याः सकलंभूतधात्र्याः भुवः । यद्वा-- निखिलाः पूर्णाः चराचराः जङ्गमस्थावराः यस्यां सा तथाविधायाः धात्र्याः भुवः ‘विपुला गह्वरी धात्री' इत्यमरः । निवेदयेऽपत्ये इत्यत्र अपत्ये इति छेदः । अपत्ये दुहितरि । ‘सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोस्समे, इत्यमरः । भगवत्यां जनकनन्दिन्यामित्यर्थः । निजं आत्मानं नि-