पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
5
परिकराङ्कुरसरः (२७)

क्वचिदेकत्र समावेशेऽपि नैकेनैकस्यान्यथासिद्धिः उपधेयसंकरेऽप्युपाधेरसंकरात् । यथा ब्राह्मणस्य मूर्खत्वं दोषः विद्या तु दोषाभावो भवति गुणश्च, तद्वदिहाप्युपपत्तिः । न च दोषाभावतया प्राप्तस्यापि परिकरस्य किमित्यलंकारेषु गणनागौरवमिति वाच्यम् । उभयात्मकत्वेन दोषान्तरवैलक्षण्यज्ञापनार्थतया तदुपपत्तेः । यथा गुणीभूतव्यङ्ग्यभेदतया संगृहीताऽपि समासोक्तिरलंकारगणनायां पुनर्गण्यते, यथा वा प्रासादवासिषु गणितोऽप्युभयवासी भूवासिगणनायां पुनर्गण्यते तथेहापीति न कश्चिद्दोषः । अन्यथा काव्यलिङ्गमप्यलंकारो न स्यात् । निर्हेतुरूपदोषाभावात्मकत्वादिति प्राहुः ॥

इत्यलंकारमणिहारे परिकरालंकारसरः षड्विंशः.


अथ परिकराङ्कुरसरः (२७)


विशेष्यं यदि साकूतं भवेत्परिकराङ्कुरः ।

 विशेष्यस्य साभिप्रायत्वे परिकराङ्कुरालंकारः ॥

 यथा--

 धनुषि त्रिनयनकरजुषि पत्रीभूय त्रिविक्रम पुरा त्वम् । त्रीणि पुराण्यसुराणां सुदुराधर्षाणि भस्मसादकृथाः ॥ ८०८ ॥

 त्रिनयनशब्दः क्षुभ्नादिगणे पठितः । ‘क्षुभ्नादिषु च' इति निषेधात् ‘पूर्वपदात्संज्ञायामगः' इति णत्वं न । अत्र त्रयो वि-