पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
139
श्लेषसरः (२८)

हे । कमलाप्रख्यातिभृते नमोस्तु मम दैवते सदाऽब्जधृते ॥ ९०१ ॥

 अत्र भगवद्विषये चतुर्थ्याः श्रीविषये सप्तम्याश्च विभक्तेः श्लेषः । तथाहि-- दुरितानि भिनत्तीति दुरितभित् तस्मै दुरितभिदे । ‘सत्सूद्विष’ इत्यादिना क्विप् । पक्षे-- भिनत्तीति भिदं 'इगुपधज्ञा’ इत्यादिना कः । तस्मिन् । एवमग्रेऽपि । सर्वविदे सर्वं वेत्ति विन्दति वा सर्ववित् तस्मै 'यस्सर्ववित्’ इति श्रुतेः । पक्षे-- सर्वज्ञे इति, नतनिवहेष्टार्थानां कल्पभूरुट् कल्पतरुः तस्मै । अभीप्सितार्थप्रदायेत्यर्थः । पक्षे-- कल्पभूमिरुहः तस्मिन् । कमलया श्रिया या प्रख्यातिः तां बिभर्तीति कमलाप्रख्यातिभृत् तस्मै श्रीनिरूपितस्वरूपायेत्यर्थः। ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ, सुमज्जानये विष्णवे' ।

यदपाङ्गाश्रितं सर्वं जगत् स्थावरजङ्गमम् ।
यस्य वक्षसि सा देवी प्रभाऽग्नेरिव तिष्ठति ॥
स वै सर्वेश्वरश्श्रीमान् कल्याणगुणसागरः ।

 इत्यादिश्रुतिपुराणवचनान्यत्रानुसन्धेयानि । पक्षे कमलेति प्रख्यात्या भृतं पूर्णं तस्मिन् । अब्जं शङ्खं धरतीत्यब्जधृत् तस्मै । पक्षे-- पद्मेन धृते इत्यर्थः । ‘पद्मे स्थिताम्' इत्यादिश्रुतेः । मम दैवते महालक्ष्मीरूपे दैवते । सदा नमः अस्तु । पक्षे-- दैव ते इति पदद्वयम् । हे मम दैव ! मद्भागधेयरूप ! भगवन् ! ते तुभ्यं नमः अस्तु । ‘नमस्स्वस्ति' इत्यादिना चतुर्थी । अत्र पदश्लेषोऽपि द्रष्टव्यः ॥