पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१४६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
136
अलंकारमणिहारे

कल्याणि । भवरहिते कर्मकृतजन्मविधुरे । पद्मानां जातं बृन्दं ‘जातं जनसमूहयोः' इति विश्वः । तस्य हृदि मध्यदेशे कर्णिकायामित्यर्थः । महिते पूजिते 'पद्मे स्थितां, तां पद्मनेमिम्’ इति च श्रुतेः । हे वरदेवि! वरा च सा देवी च वरदेवी तस्यास्संबुद्धिः देवदिव्यमहिषीत्यर्थः। 'देवो कृताभिषेकायाम्' इत्यमरः । त्वयि मनः कर्तृ, ममेति शेषः । भवतात् वर्तताम् । भवतेर्लोट्प्रथमैकवचनम् । ‘तुह्योस्तातङाशिष्यन्यतरस्याम्' इत्याशीरर्थे तोस्तातङ् । त्वय्येव लग्नं भवत्वित्यर्थः ।

 भगवत्पक्षे-- वरदे विभौ अतिमनोज्ञे भवतात् मनः तु अयि शुभेभवरहिते इति छेदः । जगतां स्वामी ईश्वरः तस्मिन् वरदे अभीष्टप्रदे । विभौ सर्वव्यापिनि । अतिमनोज्ञे । शुभः ‘मङ्गळानां च मङ्गळम्' इत्युक्तेः । स चासौ इभवराय गजेन्द्राय हितः शुभेभवरहितः गजेन्द्रहितकारीत्यर्थः । तथोक्ते । यद्वा-- शुभः निश्श्रेयसरूपकल्याणकरः इभस्य गजस्य वरः वरदानमिति यावत् । तस्मै हितः तस्मिन् । पद्मजातो ब्रह्मा तस्य हृदा मनसा महितः पूजितः तस्मिन् लक्ष्मीकामिनि श्रियःपत्यौ । अयि मनः ! हे हृदय ! भवतात् भूयाः । तुशब्दोऽवधारणे । भगवत्येव सक्तं भूया इत्यर्थः । भवतेरेव लोण्मध्यमैकवचने हेः आशिषि तातङ् । अत्र स्त्रीपुंसलिङ्गयोश्श्लेषः । वरदेविभावतिमनोज्ञे इत्यादौ पदश्लेषः । भवतादित्यत्र पुरुषश्लेषश्चेति बोध्यम् ॥

 यथावा--

 कुवलयदळासितिम्नश्श्रिय आकाङ्क्षाम्यपाङ्गरुचिभूम्नः । भगवत उच्चमहिम्नः पगुणतमैश्वर्यदाननिस्सीम्नः ॥ ८९९ ॥