पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
134
अलंकारमणिहारे

ख्याताविति वा तद्भुजपक्षे । एवमग्रेऽपि । अतिशयिता प्रशस्तिर्यस्य सः अतिप्रशस्तिः तस्मिन् । पक्षे अतिशयेन प्रशस्तौ । नितान्ता परिपुष्टिर्यस्य तथोक्ते । पक्षे नितान्तं परिपुष्टौ पुष्टिमन्तौ । हरौ उक्तविधे भगवति दोषौदास्यं दोषेषु औदास्यं उदासीनतां वितन्वतः अस्य मम चेतः कर्तृ सदा आस्तां उपविशतात् ‘आस उपवेशने' लोट्प्रथमपुरुषैकवचनम् । पक्षे चेतोहराविति समस्तं पदम् । सदा स्तां दोषौ दास्यं इति छेदः । अस्य प्रस्तुतस्य भगवतः दोषौ बाहू 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । दास्यं शेषत्वं वितन्वतः विस्तारयतः मम सदा चेतोहरौ चित्तहारिणौ स्तां भवताम् । अस्तेर्लोट्प्रथमपुरुषद्विवचनं, ‘श्नसोरल्लोपः' इत्यकारलोपः । अत्र सप्तमीप्रथमयोर्विभक्त्योः तदेकवचनद्विवचनयोश्च श्लेषः । सदास्तामित्यत्र पदश्लेषः । तिङ्विभक्तिवचनश्लेषश्च ॥

 यथावा--

 आदृतसुमनस्सेवे शुभगुणमहिते सदाऽपि लक्ष्मिपदे । घनरुचिभूम्नि यशस्विनि ननु मेधावति मनोहरे भवति ॥ ८९७ ॥

 अत्र श्रीश्रीनिवासयोर्विषये क्रमेण संबुद्धिसप्तम्योर्विभक्त्योश्श्लेषः । तथाहि, श्रीपक्षे-- आदृतसुमनः सेवे शुभगुणमहि ते सदा अपि लक्ष्मि पदे ननु मेधावति मनोहरे भवति इति छेदः । आदृताः सुमनसो बुधाः यया सा आदृतसुमनाः तस्यास्संबुद्धिः हे आदृतसुमनः ! शुभगुणानां महि ! निवासभूमे ! घनः सान्द्रः रुचिभूमा यस्यास्सा तस्यास्संबुद्धिः हे घनरुचिभूम्नि ! 'अन उपधालोपिनोऽन्यतरस्याम्' इति वैकल्पिको ङीप् । यश-