पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
131
श्लेषसरः (२८)

श्रीपक्षे सुमनोहृदिति व्यस्तं पदं, अतिमनोहारिणीत्यर्थः । समस्तं सरसीरुहविशेषणं वा । सरसीरुहे निवासभाक् । अनर्घश्रीः दिव्यशोभा । सर्वं ददातीति सर्वदा च । अखिलाभीष्टदात्रीत्यर्थः । एवंविधा अब्जलोचना श्रीरित्यर्थः ‘पद्मदलायताक्षि’ इत्येतदत्र स्मर्तव्यम् । शिशिरकृपासारस्स्यात् । ल्यब्लोपे पञ्चमी । शीतलदयासरसतां प्राप्येत्यर्थः । द्वितीयसकारस्य ‘अनचि च' इति द्वित्वमर्थान्तरानुरोधात् । भवतः संसारेण । सार्वविभक्तिकस्तसिः। तप्ते मयि भूयात् सन्निधत्तामित्यर्थः ॥

 श्रीपतिपक्षे तु-- सुमनसां विदुषां हृत्सरसीरुहे निवासभाक् सद्भिर्ध्येयेत्यर्थः । संबुद्ध्यन्तमिदमब्जलोचनेत्यस्य विशेषणम् । एवमग्रेऽपि । अनर्घा श्रीः लक्ष्मीर्यस्य तस्य संबुद्धिः । हे अब्जलोचन ! भगवन् ! पुण्डरीकाक्ष ! भवतः तव भूयानिति छेदः अतिबहुः शिशिरः कृपासारः तप्ते आध्यात्मिकादितापग्रस्ते मयि सर्वदा सदा स्यात् प्रसरतादिति यावत् । अत्र पदश्लेषोऽपि द्रष्टव्यः ।

 यथवा--

 भक्तार्थदया सततं सुरेषु दत्ताभयाऽलमुदधिजया । ननु सर्वभूतधात्र्यादरतस्तत्रेऽखिलं भुवनमेतत् ॥ ८९३ ॥

 अत्र भूश्रीविषयकः प्रथमातृतीययोः श्लेषः । भक्तानां अर्थं अभीष्टं पुरुषार्थं ददातीति भक्तार्थदा तथोक्तया । पक्षे भक्तेभ्य इयं भक्तार्था 'अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्’ इति समासो विशेष्यलिङ्गता च । तादृशी दया कृपा यस्यास्सा तथोक्ता सततं सुरेषु देवेभ्य इत्यर्थः । ‘सममब्रा-