पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
4
अलंकारमणिहारे

णयोः प्रत्येकं बहूनि विशेषणानि पदार्थरूपाणि एकाभिप्रायगर्भाणि अन्तिमोदाहरणयोः वाक्यार्थरूपाणि भिन्नाभिप्रायगर्भाणि चेति भिदा । एतेषु व्यङ्ग्यार्थसद्भावेऽपि न ध्वनिव्यपदेशः । सुवर्णस्य रमासावर्ण्यप्राप्तौ चतुर्मुखलोकस्यास्पृहणीयतायां भगवत्तद्भक्तयोरवश्योद्धर्तृतोद्धरणीयत्वयोः स्वस्मिन् दयाकरणकारणाभावे च वाच्य एवोपस्कारकत्वात् । अतएव व्यङ्ग्यार्थस्य वाच्यपरिकरत्वात् परिकर इति नाम अस्यालंकारस्य ॥

 ननु-- निष्प्रयोजनविशेषणोपादाने अपुष्टार्थदोषस्य सर्वसंप्रतिपन्नतया सप्रयोजनविशेषणं दोषाभावमात्रं कष्टत्वाद्यभाववद्भवितुमर्हति न त्वलंकार इति । अत्र प्राञ्चः-- एकधर्मिनिष्ठतया बहूनां साभिप्रायविशेषणानामुपादाने विच्छित्तिविशेषोऽनुभवारूढतया दुरपलप इत्यलंकारमध्ये परिगणित इति ॥

 अत्र दीक्षिताः-- अनेकविशेषणोपन्यास एव परिकर इति न नियमः । श्लेषयमकादावपुष्टार्थस्य दोषत्वाभावात्तत्रैकस्य विशेषणस्य साभिप्रायत्वेऽप्यलंकारता दुर्निवारा । एवंच ‘सुधां शुकलितोत्तंसः' इत्यत्रापि तस्यात्मलाभो न निरुध्यते । अपिच--एकपदार्थहेतुकं काव्यलिङ्गमलंकार इति सर्वसम्मतं, तद्वदेकस्यापि विशेषणस्य साभिप्रायस्यालंकारत्वं युक्तमेवेत्याहुः ॥

 अन्ये तु—-श्लेषाद्यतिरिक्तस्थले साभिप्रायविशेषणोपादानेन विच्छित्तिविशेषस्वीकारे तस्यालंकारत्वं दुर्वारं, अन्यथा च श्लेषादिस्थलेऽपि विच्छित्तिविशेषो नास्तीत्यपि कक्तुं शक्यम् । यदि च तत्रानुभवः प्रमाणमित्युच्यते तदाऽन्यत्रापि तत्तुल्यमिति न पृथगलंकारतेति दीक्षितमतं दूषयित्वा सुन्दरत्वे सत्युपस्कारकत्वमलंकारत्वं, चमत्कारापकर्षकाभावमात्रत्वं दोषाभावत्वं, तयोश्च