पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
127
श्लेषसरः (२८)

भाषाश्लेषः.


भाषाश्लेषस्तु भिन्नार्थनानाभाषैक्यतो भवेत् ॥ ८१

 भिन्नार्थकानां नानाभाषाणां श्लेषणे भाषाश्लेषः ॥
 यथा--

 बाहासमं सहजसंपरिणाहिदयारसं सरलभासम् । सुगळन्तमोहमीडे कमलावासंतमहिहरेसन्तम् ॥ ८८९ ॥

 अत्र सांस्कृती भाषा भगवत्परा, प्राकृती तु लक्ष्मीपरा । तथा हि, भगवत्पक्षे-- बाहासमं बाहाभिः भुजाभिः असमं असदृशं सकलभुवनरक्षणविचक्षणलोकोत्तरचतुर्बाहुमित्यर्थः । सहजसंपरिणाहिदयारसं सहजः निसर्गसिद्धः संपरिणाही अतिविपुलः दयारसः यस्य तं तथोक्तम् । सरलभासं सरला उदारा भाः यस्य तं तथोक्तम् । सुगळं शोभनः रेखात्रयलक्षणवत्तया कल्याणः गळः कण्ठो यस्य तं तमोहं तमः अज्ञानं हन्तीति तथोक्तम् ‘अन्येष्वपि दृश्यते’ इति हन्तेर्डः, सुगळशब्दान्त्यानुस्वारस्य 'वा पदान्तस्य’ इति वैकल्पिकः परसवर्णः । हरति संहरतीति हरः अहीनां हरः अहिहरः नागान्तकः तस्मिन् सन्तं स्थितं तार्क्ष्यवाहनमित्यर्थः । कमलावासं श्रीनिवासं ईडे स्तौमि ॥

 लक्ष्मीपक्षे-- बाहासमं बाधाशमां, शमयतीति शमा, पचाद्यच् । बाधायाः जगत्पीडायाः शमा तां तथोक्ताम् । "खघधथभां ह:’ इति सूत्रेण बाधाशब्दधकारस्य हकारः । ‘शो-