पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
125
श्लेषसरः (२८)

इत्यादिना हितार्थे खप्रत्ययः । ‘आत्माध्वानौ खे’ इति प्रकृतिभावः । हे रमे ! त्वं अखिलजगत् आनन्दयतीत्यखिलजगदानन्दी त्वं अशुभं हरतीत्यशुभहारी ल्वमेव शुभं करोतीति शुभकारी च । सर्वत्र कर्मण्यणि 'टिढ्ढाणञ्' इति ङीप् । अत्र त्वयि अस्यां त्वयि मनो न्यस्य परं भरन्यासोत्तरकालिकं एनः अघं ‘कलुषं वृजिनैनोऽघम्' इत्यमरः । हरे हरामि । पुर्वाघस्य विनष्टत्वादुत्तराघस्याश्लेषादिति भावः । हृञस्तङि लट्युत्तमैकवचनम् ॥

 भगवत्पक्षे-- आत्मनि इने मनोरमे परमे नः इति छेदः । हे हरे ! त्वं भृशं ‘अखिलजगत् आनन्दयतीति तथोक्तः त्वं अशुभहारी । त्वमेव शुभकारी च । आभ्यां विशेषणाभ्यां—

अशुभानि निराचष्टे तनोति शुभसंततिम् ।
स्मृतिमात्रेण यत्पुंसां ब्रह्म तन्मंगळं परम् ॥

 इति प्रमाणार्थस्संगृहीतः । सर्वत्र 'सुप्यजातौ’ इति णिनिमनोरमे सैन्दर्यसौशील्यादिकल्यणगुणैश्चित्तापहारिणि इने सः वैश्वरं परमे आत्मनि सर्वान्तरात्मनि अत्र अस्मिन् त्वयि नः अस्मान् न्यस्य न्यस्याः । त्वयि न्यस्तभरान् कुर्या इत्यर्थः । निपुर्वकादस्यतैर्दैवादिकाल्लोण्मध्यमैकवचनम् । अत्र जगदानन्दीत्यादिविशेषणत्रये स्त्रीपुल्लिङ्गयोश्श्लेषः, तयोरैकरूप्येण श्रवणात् । आनन्दत्यादेः ङ्यन्तत्वणिन्यन्तत्वकृता विभन्नानुपूर्वीकतेति तादृशशब्दप्रतिसन्धानबोध्यत्वादर्थद्वयस्य सामान्यलक्षणसंगतिः । न्यस्य हरे इत्यत्र सुप्तिङ्प्रत्यययोश्श्लेषः । आत्मनीने मनोरमे परमेनः इत्यत्र पदश्लेषश्चेत्यपि विभावनीयम् ॥