पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
124
अलंकारमणिहारे

व्यदर्पणकृतो लिङ्गश्लेषोदाहरणं तु तन्मते सम्यगेव । तस्या भङ्गतायामप्यविरोधात् । तेन ह्यष्टविधश्लेषान्तःपातिपदश्लेषमुदाहृत्यायमेव सभङ्गश्लेष इत्युक्तम् । न तु भेदान्तरस्याभङ्गत्वं सभङ्गत्वं वा कण्ठतः । तस्मात् पदश्लेषातिरिक्तानां वर्णादिश्लेषाणां यथायथं सभङ्गे अभङ्गे वा श्लेषे अन्तर्भाव इति तदाशय उन्नीयते । साहित्यदर्पणकारस्तु--

"श्लिष्टैः पदैरनेकार्थाभिधाने श्लेष इष्यते ।
वर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ।
श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः ।

इत्यादिना अष्टविधान् श्लेषान्निरूप्य,

पुनस्त्रेधा सभङ्गोथाभङ्गस्तदुभयात्मकः ॥

इति पुनस्त्रिधा विभज्य ‘एतद्भेदत्रयं चोक्तभेदाष्टके यथासम्भवं ज्ञेयम्" इत्यभाणीत् । एवंच काव्यदर्पणादिमते ‘बिभ्रन्नीलोत्पलरुचिम्' इत्यादेः दधदित्यादेश्चाभङ्गश्लेषत्वेऽपि लिङ्गश्लेषोदाहरणत्वं निरर्गळमेव । अलङ्कारकौस्तुभमते तूपपादितप्रकारेण तदीयलक्षणासङ्गतेः ‘प्रवरदोः' इत्यादितदीयलिङ्गश्लेषोदाहरणमसमीचीनमेव । इदं तु तन्मतेऽप्युदाहरणं भविष्यति--

 यथा--

 त्वमखिलजगदानन्दी त्वमशुभहारी त्वमेव शभकारी । न्यस्य परमात्मनीने मनोरमे त्वयि हरेऽत्र परमेनः ॥ ८८७ ॥

 अत्रापि श्रीश्रीशयोरेव श्लेषः । भृशं आत्मने परमात्मने हिता आत्मनीना । तस्यास्संबुद्धिः हे आत्मनीने! ‘आत्मन्विश्वजन'