पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
123
श्लेषसरः (२८)

उन्मीलद्धनसारसन्ततिसदृक्फुल्लारविन्दाभदृ
ग्रूपं कैटभभेदिनो मदनजिद्वा चन्द्रिका वाऽवतु ॥

इत्युदाहृत्य ‘अत्र दोरित्यादीनां रूपं क्लीबपुंस्त्रीलिङ्गेषु समानम्' इत्युक्तम् । एवं च तदुदाहरणे लिङ्गत्रयस्य दधदित्याद्यस्मदुदाहरणे पुंनपुंसकलिङ्गयोश्चानुपूर्व्या एकाकारतया विभिन्नानुपूर्विकतायाः कथमप्यदर्शनान्न भवतीदं सभङ्गविशेषलिङ्गश्लेषोदाहरणं, अपितु हर्यादिशब्दवदभङ्गश्लेषोदाहरणमेव ॥

 ननु हर्यादिशब्देषु लिङ्गभेदाभावादानुपूर्व्या अविभिन्नत्वमस्तु प्रवरदोरित्यादौ दधदित्यादौ च तत्सद्भावाद्विभिन्नत्वमानुपूर्व्या इति चेन्न, लिङ्गभेदस्य तदप्रयोजकत्वात् । शब्देष्वानुपूर्वी नाम अव्यवहितोत्तरत्वसंबन्धेन पूर्वपूर्ववर्णविशिष्टचरमवर्णत्वरूपा । सा च प्रदर्शितस्थले अविभिन्नैव दृश्यत इति क्वास्ति विभिन्नानुपूर्वीकता । न च पुंनपुंसकादिरूपार्थभेदात्तद्भेदनिर्वाहः, अर्थभेदस्यापि तदप्रयोजकत्वात् । लिङ्गस्य शब्दवृत्तिताभ्युपगमेऽपि न लिङ्गमानुपूर्वीघटकं भविष्यति । लिङ्गं हि नाम स्त्रीत्वपुंस्त्वादिरूप उदात्तत्वानुदात्तत्वादिवत्कश्चन शब्दवृत्तिधर्मः पृथगेवानुपूर्व्याः । अत एव ‘तटादिशब्देषु समानानुपूर्वीकेषु लिङ्गत्रयम्’ इति वैयाकरणभूषणोक्तं संगच्छते । लिङ्गस्याप्यानुपूर्व्यन्तःपातित्वाभ्युपगमे ‘अब्जेन त्वन्मुखं तुल्यं कमलानां त्वदीक्षणे’ इत्यादावप्यब्जकमलपदयोर्लिङ्गभेदप्रयुक्तानुपूर्वीभेदेन सभङ्गश्लेषत्वापत्तिः । इष्टापत्तौ च तत्राभङ्गश्लेष इति सकलालङ्कारिकाभिमतिविरोधप्रसङ्गः । तस्मान्न लिङ्गमानुपूर्वीभवितुमर्हतीति विभिन्नानुपूर्वीकताया उपदर्शितोदाहरणगतप्रवरदोरित्यादिशब्देष्वसम्भवात्तेषां सभङ्गावान्तरलिङ्गश्लेषोदाहरणत्वं न युज्यते 'बिभ्रन्नीलोत्पलरुचिं हरिरव्यात्तदक्षि वा’ इति का-