पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
121
श्लेषसरः (२८)

 यथा--

 किमपि महस्स्वानस्मान् श्रेयो नयता दधत्कराग्रेऽब्जम् । मातृत्वभाक्त्रिजगतां नितरां जाग्रन्नतेप्सितविधाने ॥ ८८५ ॥

 अत्रापि श्रीश्रीशयोरेव श्लेषः । त्रिजगतां मातृत्वं जननीत्वं पदत्रयेण मितिकर्तृत्वं च भजतीति मातृत्वभाक् । भजतेर्ण्विः । नितरां नतानां ईप्सितविधाने जाग्रत् जागरूकं जागरूकश्च । पक्षे-- 'नाभ्यस्ताच्छतुः' इति नुमभावः। कराग्रे अब्जं पद्मं शङ्खं च दधत् दधानं दधानश्च । किमपि महः तेजस्त्वेनाध्यवसितं वस्तु विशेषणमहिम्ना श्रीरूपमिति लक्ष्यते । स्वान् स्वकीयान् अस्मान् श्रेयः कल्याणं नयताम् ॥

 पक्षे-- महस्स्वानित्येकं पदम् । महस्स्वान् तेजस्वी विशेषणमहिम्ना भगवानिति लभ्यते । अस्मान् किमपि श्रेयो नयतामिति योजना । महस्वानित्यत्र ‘तसौ मत्वर्थे’ इति भसंज्ञायां न पदकार्यरुत्वादि । अस्मिन्पक्षे सकारस्य 'अनचि च' इति द्वित्वं बोध्यम् ॥

 यथावा--

 पद्मानुरागिशुभदृक्छुकवागमृताब्धिजाततयशोभाक् । पायादेव महोज्ज्वलभामामणिहारिहृत्सततमस्मान् ॥ ८८६ ॥

 अत्रापि श्रीश्रीशयोरेव श्लेषः । श्रीपक्षे-- प्रथमैकवचनान्तानि

विशेषणानि । श्रीशपक्षे संबुद्ध्यन्तानीति द्रष्टव्यम् । पद्मेषु अ-

 ALANKARA
16