पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
120
अलंकारमणिहारे

नतवत्सलक्ष्मा । सत्सु ब्रह्मवित्सु स्निग्धमनाः 'स च मम प्रियः’ इति गानात् । हृद्या वक्षस्स्था नित्या ‘नित्यैवैषा जगन्माता’ इत्युक्तेः श्रीः लक्ष्मीः यस्य स तथोक्तः । कलिकल्मषहृत्पत् मा इति च्छेदः। कलिकल्मषं हरत इति तथोक्तौ पदौ चरणौ यस्य स तथोक्तः ‘पदङ्घ्रिश्चरणोऽस्त्रियाम्' इत्यमरः ॥

यावत्स पादपद्माभ्यां पस्पर्शेमां वसुन्धराम् ।
तावत्पृथ्वीपरिष्वङ्गे समर्थो नाभवत्कलिः ॥

इत्येतदत्रानुसंहितम् । कल्याणगुणाम्बुधिः स्वभूः भगवन् ‘केशवो माधवस्स्वभूः' इत्यमरः । मा मां अव्यादिति योजना अनन्वादेशेऽपि वैकल्पिको मादेशो भवत्येव ‘एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः’ इत्युक्तेः । पद्मा इत्यत्र संहितायामनुनासिकनकारादेशाभावः, ‘यरोऽनुनासिकेऽनुनासिको वा’ इति तस्य वैकल्पिकत्वानुशासनात् । अत्र 'समुपनतवत्सलक्ष्मा’ इत्यादौ पदभेदनिबन्धनः श्लेषः । अयमेव सभङ्गश्लेष इति काव्यदर्पणकृत् ॥



लिङ्गश्लेषः.



लिङ्गश्लेषस्स विज्ञेयो ह्रस्वदीर्घसमासतः । स्त्रीपुंनपुंसकानां चेच्छब्दानां तुल्यरूपता ॥

 ह्रस्वैर्दीर्घैर्वा वर्णैः लघोर्दीर्घत्वेन दीर्घस्य लघुत्वेन वा समासैर्वा स्त्रीपुंनपुंसकलिङ्गानां सारूप्यं वर्ण्यते चेत्स लिङ्गश्लेष इत्यर्थः ॥