पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
119
श्लेषसरः (२८)

त्सभङ्गश्लेषसामान्यलक्षणानुगतिः । हेतौ इत्यादौ ‘अच्च घेः इत्यदादेशोत्तरमानुपूर्वीभेदाभावेऽप्यादेशिनि भेददर्शनाद्विभिन्नानुुपूर्वीकत्वं द्रष्टव्यम् । एवमन्यत्राप्यूह्यम् ॥


पदश्लेषः.


 पदश्लेषस्स यश्श्लेषः पदभेदनिबन्धनः ॥ ७९ ॥

 यथा वा--

 समुपनतवत्सलक्ष्मास्निग्धमनास्सत्सुहृद्यनित्यश्रीः । कलिकल्मषहृत्पद्मा कल्याणगुणाम्बुधिस्स्वभूरव्यात् ॥ ८८४ ॥

 अत्र श्रीश्रीशयोः श्लेषः । श्रीपक्षे-- समुपनतेषु शरणागतेषु वत्सला वात्सल्यशालिनी या क्ष्मा भूर्देवी तस्यां स्निग्धं स्नेहशालि मनो यस्यास्सा । भुवः ‘लक्ष्मीप्रियसखीं देवीम्' इति विशेषितत्वश्रवणात् । सत्सुहृद्यनित्यश्रीः सती साध्वी 'सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्' इत्यमरः । सुहृद्या अतिमात्रहृदयप्रिया सतां सुहृद्या वा नित्या अनश्वरी श्रीः शोभा संपत्तिर्वा यस्यास्सा तथोक्ता । कलिकल्मषहृत् कलिकलुषहारिणी । कल्याणाः गुणाः यस्यास्सा । स्वेन भवतीति स्वभूः, स्वेच्छायत्तजन्मा न तु कर्मकृतजनिः अम्बुधौ स्वभूः अम्बुधिस्वभूः । पद्मा श्रीः अव्यात् पायात् । इति ॥

 श्रीशपक्षे तु-- वंत्से-- वक्षसि ‘उरो वत्सं च' इत्यमरः । लक्ष्म श्रीवत्साख्यं चिह्नं तत् समुपनतं प्राप्तं येन सः समुप-