पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
118
अलंकारमणिहारे

सुप्तानि ज्ञानेन्द्रियाणि चोदयमानं प्रेरयन्तमित्यर्थः । अनेन ‘धियो यो नः प्रचोदयात्' इति श्रुतिः प्रत्यभिज्ञाप्यते । यद्वा-- 'य आत्मनि तिष्ठन्नात्मनोऽन्तरः’ इत्युक्तरीत्याऽन्तर्यामितया स्थित्वा ‘स नो देवश्शुभया स्मृत्या संयुनक्तु’ इत्युक्तप्रकारेण स्वप्राप्त्यौपयिकीर्धियः प्रेरयन्तमित्यर्थः । अत्र ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते’ इत्येतत् स्मर्तव्यम् । नैतावदेव, स्वात्मनि स्वशरीरभूते ‘यस्यादित्यश्शरीरम्’ इति श्रुतेः । 'आत्मा यत्नो धृतिर्बुद्धिस्स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । सर्वदा तरणौ च उदयमानं इति छेदः । तरणौ चेत्यन्वयः, आदित्ये च सर्वदा उदयमानं प्रकाशमानं त्वां अनेन च सन्दर्भेण 'स यश्चायं पुरुषे । यश्चासावादित्ये' इति श्रुतिखण्डः प्रत्यभिज्ञाप्यते । एकं उभयत्र विद्यमानमभिन्नम् । अनेन उदाहृतश्रुतिशेषस्थं 'स एकः’ इत्येतत्प्रत्यभिज्ञाप्यते । विदन्तः जानन्तः । अनेन 'स य एवं वित्' इत्येतत् । सुधियः विपश्चितः मुक्तास्सन्तः, अनेन ‘अस्माल्लोकात्प्रेत्य’ इत्युक्तार्चिरादिमार्गगमनपूर्वकवितमःपदप्राप्तिरुक्ता । अमन्दमानन्दं विन्दन्ति । अनेन 'एतमानन्दमयमात्मानमुपसङ्क्रामति’ इति श्रुत्यर्थस्समगृह्यत । उदाहृतश्रुत्यर्थो व्यासार्यैरित्थमभिवर्णितः 'सर्वोsपि विद्वानस्माल्लोकात्प्रेत्यान्नमयादिसमष्टिव्यष्टिविभूतिकं निरतिशयानन्दं परमात्मानं भोग्यभूतं भोक्ता सन्ननुभवति' इति । हन्तेतीदृशार्थपरिचिन्तनजनितहर्षे । अत्र तरण्यणुशब्दयोस्सप्तमीविभक्तौ इकारोकारयोर्वर्णयोश्श्लेषः पूर्ववदेव । सर्वदातः अणौ सर्वदा तरणौ इतिच्छेदाद्वक्ष्यमाणपदश्लेषश्च । एषु श्रेयोहेतावित्यादिषु त्रिषूदाहरणेषु हेतौ वेणौ इत्यादौ हेतुहेतिवेणुवेणीत्यादिविभिन्नानुपूर्वीकशब्दयोरेकोच्चारणगोचरतया प्रतिसन्धानेनार्थद्वयस्य बोधितत्वा-