पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
117
श्लेषसरः (२८)

 अत्रापि श्रीश्रीनिवासयोरेव श्लेषः । अशरारौ अहिंस्रे अनुग्रहमयत्वेनाज्ञातनिग्रहे इत्यर्थः । पक्षे-- आशरारावितिच्छेदः । आशराणां रक्षसां अरौ विरोधिनि ‘क्रव्यादोऽस्रप आशरः' इत्यमरः । दुर्गतिर्दारिद्र्यं वाराशिरिव दुर्गतिवाराशिः तस्य तरणे दिव्यतरौ कल्पशाखिनि ‘दारिद्र्यार्णवतारिणीम्' इत्याद्युक्तेः । 'दुर्गतिर्नरके नैस्व्ये' इति मेदिनी । पक्षे-- दुर्गतिः नरकः स एव वाराशिः तस्य तरणे दिव्या अद्भुता तरिः नौः तस्यां दिव्यतरौ । कलशोदधौ दुग्धजलधौ भवनं जन्म निवासश्च यस्य तस्मिंस्तथोक्ते कस्मिंश्चिद्दैवते श्रीरूपे श्रीनिवासरूपे च मम हृदयं सदा लगतात् । अत्र सदाऽऽशरारौ दिव्यतरौ इत्यत्र अशरारु आशरारि दिव्यतरु दिव्यतरिपदानां सप्तमीविभक्तावुकारेकायोर्वर्णयोश्श्लेषः ॥

 यथावा--

 स्वात्मनि चोदयमानं त्वां सुधियोऽब्जा क्ष सर्वदातरणौ । एकं हन्त विदन्तो मुक्ता विन्दन्त्यमन्दमानन्दम् ॥ ८८३ ॥

 सर्वस्य दाता सर्वदाता तस्य संबुद्धिः सर्वदातः! 'य आत्मदा बलदाः' । ‘सकलफलप्रदो हि विष्णुः' इत्युक्तरीत्या आत्मपर्यन्तसर्वस्वदानशीलेत्यर्थः । हे अब्जाक्ष ! अनेन "तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणि” इति विवक्षितश्रुत्यर्थस्स्मारितः । अणौ अणुपरिमाणे ‘एषोऽणुरात्मा' इति श्रुतेः । स्वात्मनि ‘स्वत्वमात्मानि सञ्जातं स्वामित्वं ब्रह्मणि स्थितम्’ इत्युक्तरीत्या स्वामिनस्स्वस्य स्वभूते आत्मनि प्रत्यगात्मनि सुधियः