पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
115
श्लेषसरः (२८)

आद्योऽष्टधा वर्णपदलिङ्गभाषाविभक्तिभिः ।
प्रकृतिप्रत्ययाभ्यां च वचनैश्श्लेष ईरितः ॥७७



तत्र च वर्णश्लेषः.



विभक्त्यादिवशाद्यत्र नानावर्णैकरूपता ।
श्रूयते स हि विद्वद्भिर्वर्णश्लेष इतीर्यते ॥ ७८ ॥

 यत्रानेकेषां वर्णानां विभक्त्यादिबलादैकरूप्यं श्रूयते स वर्णश्लेष इत्यभिधीयते ॥

 यथा--

 श्रेयोहेतौ शुभकरभूषणवेणौ समुल्लसज्जानौ । त्वयि भगवति विनिविशतां चित्तं देवेश्वरे मम दयाळौ ॥ ८८१ ॥

 अत्र लक्ष्मीश्रीनिवासयोश्श्लेषः। तत्र लक्ष्मीविषये हे देवेश्वरे । देवानामीश्वरा ईशाना तस्यास्संबुद्धिः । ‘स्थेशभास' इत्यादिना वरजन्तत्वान्न ङीप् । हे भगवति! श्रेयसां हेतौ कारणे 'श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित्’ इत्युक्तेः । शुभकराणि भूषणानि यस्यां सा तथोक्ता वेणिः प्रवेणी यस्यास्सा तथोक्ता तस्याम् । इदन्तोऽयं वेणिशब्दः । ‘वेणृ निशामनवादित्रादानगमनज्ञानचिन्तासु' इति भौवादिकाद्धातोरौणादिक इन् प्रत्ययः ।