पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
113
श्लेषसरः (२८)

वक्षिताः ‘कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः' इत्यमरः । अरिणां समूहः आरम् । सामूहिकं ‘प्राणिरजतादिभ्योऽञ्’ आरस्य सत्त्वमन्तःकरणं आरसत्त्वं तदुल्लासितं ययेत्युदारसत्त्वा प्रादिभ्यो धातुजस्य' इति बहुव्रीहौ लासितशब्दलोपः । वसवः किरणाः अस्य सन्तीति वसुमान् भूम्नि अतिशायने वा मतुप् । तस्य भावः वसुमत्ता तया अविद्योता अविर्मेषराशिः तस्मिन् द्योतत इति तथोक्ता मेषराशेस्तदुच्चस्थानत्वात्तत्र द्योतत इत्युक्तम् । यथोच्यते कार्तान्तिकैः— ‘स्वोच्चे प्रदीप्तः' इति । महती सर्वैस्त्रिसन्ध्यमभिवन्द्यमाना देवता सूर्याभिधानेत्यर्थः । परां 'दिशां प्राची' इत्युक्तरीत्या मुख्यां पूर्वां परां पश्चिमां च काष्ठां दिशं समुपाश्रयते उदयास्तमयार्थमिति भावः ॥

 (६) वसुमतीपक्षे-- गावो धेनवः अवयः मेषाः सरांसि कासाराः आपः अन्यानि नद्यादिजलानि । सरसां आपः सरोऽपा इति वा । एतेषां समाहारः गोऽविसरोऽपं ‘ऋक्पूरप्' इत्यादिना समासान्तोऽप्रत्ययः । तेन आत्ता श्रीश्शोभा यया तथोक्ता । उदाराः महान्तः सत्त्वाः जन्तवः यस्यां सा । यद्वा-- आरः अङ्गारकः ‘आरा चर्मप्रभेदिन्यां पुंसि भौमे शनैश्चरे'

इति मेदिनी । स एव सत्त्वं गर्भो यस्यास्सा उत्कर्षेण आरसत्त्वा उदारसत्त्वा । सत्त्वशब्दो गर्भवाची । अत एव आपन्नसत्त्वेति गर्भिणीपर्यायशब्दश्श्रूयते । अङ्गारको हि वसुधागर्भोदितः । स हि ‘रोहिताङ्गो महीसुतः' इत्यभिधीयते । वसुमत्ता रत्नवत्ता निधिरूपधनवत्ता वा यत इयं वस्तुमतीत्याख्यायते अवयः गिरयः । वसुमत्ता च अवयश्च वसुमत्तावयः तैः द्योतत इति तथोक्ता । यद्वा-- विगतो द्योतो यस्यास्सा न भवतीत्यविद्योता । वसुमत्तया अविद्योता रत्नगर्भतया नित्यप्रकाशेत्य-

 ALANKARA II
15