पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
112
अलंकारमणिहारे

खिलदेवाधीशत्वात्सततमपि वसुसाहित्येन भासमानेत्यर्थः । महती देवता ‘यो वृत्रमवधीत्तन्महेन्द्रस्य महेन्द्रत्वम्' इति श्रुत्युक्तरीत्या प्राप्तमहत्त्वा । देवता इन्द्ररूपा देवता । अपरां परा पश्चिमा सा न भवतीत्यपरा पूर्वेत्यर्थः । तां काष्ठां दिशं समुपाश्रितेति ॥

 (४) पशुपतिपक्षे-- गौः वृषभः विसरतीति विसरा, पचाद्यच् । गवा विसरा गोविसरा । भिन्नं पदम् । वृषभचारिणीत्यर्थः । उपात्ता पीता श्रीः विषं यया सा तथोक्ता--

श्रीर्वेषरचनाशोभासंपत्सरलशाखिषु ।
वाणीलक्ष्मीलवङ्गेषु विषे बिल्वेऽपि........ ॥

इति रत्नमाला । अत एवायं श्रीकण्ठ इत्युच्यते । उदाराणि महान्ति सत्त्वानि भूतपिशाचादीनि यस्यास्सा तथोक्ता । भूतेशत्वादिति भावः । वसुरग्निः सोऽस्यास्तीति वसुमान् तस्य भावः वसुमत्ता फाललोचनाग्निमत्तेत्यर्थः । तया यः अविः भाः । उदाहृतः कोशो न विस्मर्तव्यः । तेन द्योता द्युतिमती । यद्वा वसुः धनदः वसुमत्ता तद्वता तया अवौ शैले कैलासनाम्नि । यद्वा वसुर्धनदः मत्तः हृष्टो यस्मिन् तस्मित् अवौ कैलासगिरौ द्योतत इति तथोक्ता द्वयोरपि तयोः कैलासनिलयत्वादिति भावः । महती देवता महादेवत्वेन प्रसिद्धा देवता परां ‘दिक्ष्वैशानी दिगुत्तमा' इति प्रशस्ततया स्मृतिप्रतिपादितां काष्ठां दिशं समुपाश्रयते ॥

 (५) ग्रहपतिपक्षे-- गवां दिशां विसरेण निवहेन उपात्ता श्रीः प्रकाशो यस्यास्सा सर्वदिक्प्रकाशिकेत्यर्थः । अराण्यस्य सन्तीत्यरि चक्रं मत्वर्थीय इनिः । तन्नामकत्वात्कोका अत्र वि-