पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
2
अलंकारमणिहारे

सारासारं बलं वीर्यमात्मनो द्विषतश्च यः ।
जानन् विचरति प्राज्ञो न स याति पराभवम् ॥
एवमेव यदा विद्वान्मन्यतेऽतिबलं रिपुम् ।
संश्रयेद्वैतसीं वृत्तिमेतत् प्रज्ञानलक्षणम् ॥

इति भारताद्युक्तरीत्या वैतसवृत्त्याश्रयणादिति भावः । पक्षे— महारजनामितिपदं नतताश्रयणात् नकारस्य तकारत्वाश्रयणात् नकारमपनीय तत्र तकारपठनादिति भावः। महारजतत्वं सुवर्णत्वं ‘महारजतकाञ्चने' इत्यमरः । महारजतशब्दत्वमिति च । एत्य तव सावर्ण्यं एति । अत्र विद्युद्वर्णे इति विशेषणं महारजनस्य उपपादितप्रकारेण महारजततावाप्तिपूर्वकसावर्ण्यलाभार्हताभिप्रायगर्भम् ॥

 यथावा--

 आकालिकसुखदायास्तोकानेकार्तिवर्तनीकाय। लोकाय वराकाय श्रीकान्त ब्रह्मणोऽपि नं स्पृहये ॥

 आकालिकं आशुविनाशि यत् सुखं तद्ददातीति तथोक्ताय समानकालावाद्यन्तौ यस्येति विग्रहः ‘आकालिकडाद्यन्तवचने’ इत्याशुविनाशिन्यर्थे समानकालशब्दाठ्ठक् । समानकालशब्दस्याकालादेशः 'आकालाठ्ठंश्च' इति ठन्वा । अस्तोकाः अनेका आर्तिवर्तन्यः पीडामार्गाः यस्मिंस्तथोक्ताय । अन्यत्सुगमम् । अत्रानेकानि लोकस्य विशेषणान्यतिहेयताभिप्रायगर्भाणि ॥

 यथावा--

 अरिवर्गलुलितहृदयं दुरितच्छुरितं दुरन्तविपदुदयम् । करिवरद कृपासिन्धो त्वरितं मामुद्धरेश नतबन्धो ॥ ८०५ ॥