पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
108
अलंकारमणिहारे

श्रितलक्ष्मीप्रदः । राजा, ‘इन्द्रो राजा जगतः । इन्द्राय राज्ञे’ इत्यादिश्रवणाद्राजतया प्रसिद्धः । लोकपालः जिष्णुः इन्द्रः ‘जिष्णुर्लेखर्षभः' इत्यमरः । सर्वतोमुखं सलिलं ‘पुष्करं सर्वतोमुखम्' इत्यमरः । कामं पर्याप्तं यथा स्यात्तथा वर्षतितरां पर्जन्यवाहनतया वर्षस्य तदधीनत्वादिति ॥

 (३) यमपक्षे-- जिष्णुः जयशीलः प्रचेताः श्रीदः उक्त एवार्थः । राजा 'यमो राजा प्रमृणाभिः' इति श्रुतेरस्य राजत्वम् । समवर्तिताप्रथितनामा समवर्तीति प्रसिद्धाभिधानः । लोकपालः सर्वतोमुखं निरवधिकं कामं अभिलाषं वर्षतितराम् । स्वाश्रितानां प्रददातीत्यर्थः । 'ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दतः प्रार्थयस्व' इति नचिकेतसं प्रति स्वेनैवोक्तत्वादिति भावः ॥

 (४) वरुणपक्षे-- प्रचेता इति विशेष्यम् । समं वर्तत इति समवर्तिता वर्ततेस्तृच् । अर्थः पूर्ववदेव । अप्प्रथितनामेति भिन्नं पदम् । अद्भिः प्रथितं व्यपदिष्टं नाम यस्य सः ‘वरुणोऽपामधिपतिः’ इत्यादिश्रुतेस्तन्नाम्नोऽद्भिः प्रथितत्वम् । राजा ‘राजा त्वा वरुणो नयतु । यासां राजा वरुणः' इत्यादिश्रुतेरस्यापि राजत्वम् । अन्यानि विशेषणानि यथोक्तार्थान्येव । सर्वतोमुखं जलं कामं वर्षतितरां सलिलाधिपतित्वात्तस्य पर्जन्यद्वारा वर्षणमिति ध्येयम् ॥

 (५) कुबेरपक्षे-- श्रीद इत्येतद्विशेष्यम् । अन्यानि विशेषणानि यथोदितार्थान्येव । राजा ‘कुबेराय वैश्रवणाय महाराजाय नमः' इति श्रुतिप्रसिद्धेरस्यापि राजत्वम् । एवं चाष्टानामपि दिगधीशानां लोकपालत्वाविशेषेऽपीन्द्रयमवरुणकुबेरा-