पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
106
अलंकारमणिहारे

पुष्करसच्छ्रीलक्षणहृत् यः विरोचनाभिख्य इति यत्पदद्वयस्य योजना । विरोचनाभिख्यः चिरोचनापरनामा । वृत्राणां ध्वान्तानां संहननस्य संघस्य भिदुराः भेदयित्र्यः वराः हेतयः अंशवो यस्य सः। विद्युत् विशेषेण द्योतमाना भाः प्रभावो यस्य सः । हरिः चन्द्रमाः जयत्विति ॥

 विद्युत्प्रकाशपक्षे तु-- लिङ्गविपरिणामेन विशेषणानि योज्यानि । पुष्करं नक्षत्रं तदिव सती रमणीया । यद्वा पुष्करं अहिविशेषः जलधारा वा तदिव सती विद्यमाना वक्रतनुदीर्घोज्ज्वलरूपा ॥

पुष्करमम्बुनि खे भे युधि वाद्यमुखेऽमरेऽपि धारायाम् ।
द्वीपे भेषजभेदे सारसतीर्थाहिकरिकराग्रेषु ॥

इति रत्नमला । श्रीरस्यास्तीति श्रीला । सिध्मादित्वान्मर्थीयो लच् । ‘लक्ष्मीवान् लक्ष्मणश्श्रीलः' इत्यमरः । क्षणहृद्या अल्पकालरमणीया अचिररुचित्वात् । त्रयाणामेषां कर्मधारयः । हरिः कपिलवर्णा । अत एव विरोचनाभिख्या । रोचना गोरोचना तस्याः अभिख्येवाभिख्या यस्यास्सा विशेषेण रोचनाभिख्या विरोचनाभिख्या । अथवा रोचनाः वरवर्णिन्यः तासां आभिख्येवाभिख्या यस्यास्सा उत्तमललनामणितुल्यशोभेत्यर्थः । अत एव प्रतीपालंकारः । बहु यथा तथा वृत्राणां जीमूतानां संहननं संघः तस्य भिदुराः वराः हेतयः ज्वालाः यस्यास्सा अम्बुदकदम्बसम्भेदनेनोन्मीलितत्वादिति भावः । विद्युद्भाः तटित्प्रकाशः जयत्विति ॥

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।
शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ इत्यमरः ॥

 यथावा--

 राजा स लोकपालो जिष्णुस्समवर्तिताप्प्रथि