पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
105
श्लेषसरः (२८)

ज्ञानं ‘वाग्वै पराच्यव्याकृताऽवदत्तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्’ इति श्रुतेः । ब्रह्मविषयकं ज्ञानं वा ‘स होवाच मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्ये’ इत्यादिना प्रतर्दनाय स्वात्मशरीरकब्रह्मोपदेष्टृत्वश्रवणात् । युत् पौलोमादियुद्धं ताभ्यां भासत इति विद्युद्भाः ‘समित्याजिसमिद्युधः' इत्यमरः । यद्वा विदि उद्भाः इतिच्छेदः। विदि पूर्वोक्तज्ञाने विषये उद्भाः उदञ्चद्दीप्तिः अप्रतिहतज्ञान इत्यर्थः । सः हरिः इन्द्रः जयत्विति ॥

 सूर्यपक्षे-- यः पुष्कराणां कमलानां सती या श्रीः संपत् शोभा वा तस्याः लक्षणं रक्षणं रलयोरभेदात् । हृद्यं हृदयहितं यस्य सः । बहु इति भिन्नं पदमग्रेऽन्वेति । विरोचनाभिख्यः विरोचननामा 'चन्द्राग्न्यर्का विरोचनाः' इत्यमरः । यद्वा रोचनानां रक्तकह्लाराणां अभिख्या शोभा । विशिष्टा रोचनाभिख्या यस्मात्सः । रक्तकह्लारसुषमावह इत्यर्थः । ‘रोचना रक्तकह्लारे गवां पित्ते वरस्त्रियाम्' इति रत्नमालावैजयन्त्यौ । बहु यथा स्यात्तथा । इदं भेदनक्रियाविशेषणम् । वृत्राणां पर्जन्यानां संहननं संघः 'अङ्गे संघे संहननम्’ इति शेषः । तेषु भिदुराः वृष्ट्यर्थं मिळिताः वराः हेतयः किरणाः यस्य स तथोक्तः ‘याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति’ इति श्रुतेः । विद्युद्भाः विद्युद्वर्णः सः हरिः सूर्यः जयत्विति ॥

 चन्द्रपक्षे-- पुष्कलं पूर्णं सतां रोहिण्यादिनक्षत्राणां ‘सत्क्लीबमृक्षे’ इति रत्नमाला । श्रियः संपदः रक्षणं हृद्यं हृदयप्रियं यस्य सः । ताराधीशत्वात्तस्येति भावः । यद्वा बहु यथा तथा पुष्करेषु पद्मेषु सती या श्रीः शोभा तस्याः लक्षणं चिह्नं नाम वा हरतीति पुष्करसच्छ्रीलक्षणहृत्, हरतेः क्विप् । पद्मशोभायाश्चिह्नं नामापि वा निश्शेषयितेत्यर्थः । अस्मिन्पक्षे यः

 ALANKARA II
14