पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
103
श्लेषसरः (२८)

सती ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्' इति नपुंसकैकशेषः । सती अभ्यर्हिते च । श्रीश्च लक्षणं च श्रीलक्षणे लक्ष्मीश्रीवत्सौ हृद्ये उरस्स्थिते यस्य सः 'श्रीमान् श्रेष्ठः पुष्कलस्स्यात्सत्तमश्चातिशोभने' इत्यमरः । ‘सत्साधौ धीरशस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयोः स्त्रियाम्' इति मेदिनी । यद्वा पुष्कलानि पूर्णानि ‘पूर्णश्रेष्ठौ तु पुष्कलौ’ इति रत्नमाला । सन्ति प्रशस्तानि लक्षणानि सामुद्रिकोक्तमहापुरुषत्वज्ञापकाङ्गचिह्नान्वितैः हृद्यः मनोज्ञः । यथोच्यते श्रीरामायणादौ--

त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।

इत्यादिना । यद्वा पुष्कला श्रीमती सती साध्वी च या श्रीः लक्ष्मीः तस्याः लक्षणं नामैव हृद्यः तस्याः जगतो वा वशीकारमन्त्रो यस्य स तथोक्तः, हृदयस्य बन्धनो हृद्य इति विग्रहः। ‘बन्धने चर्षौ' इति हृदयशब्दात् षष्ठ्यन्ताद्बन्धने यत्प्रत्ययो वेदेऽभिधेये । हृद्यो वशीकरणमन्त्र इत्याहुः । ‘नारायणस्य किल नित्यजपस्त्वदीयं नाम प्रगल्भतमम्' इत्युक्तरीत्या भगवतो लक्ष्मीनाम नित्यजपार्हमिति भावः ।

लक्षणं कार्षिके चिह्ने नाम्नि मुद्राङ्गसंपदोः ।
हृद्यो वशिक्रियामन्त्रे हृद्यं धध्न्यनुलेपने ॥
हृत्प्रिये हृद्धिते हृज्जे.........॥

इति च वैजयन्ती । अथवा पुष्करा सती श्रीरेव लक्षणं जगदीश्वरत्वज्ञापकमुद्रा हृद्यं हृदयस्थं यस्य स तथोक्तः । बहु अधिकं विरोचनं प्रकाशो यस्यास्तथोक्ता अभिख्या कीर्तिर्यस्य सः बहुविरोचनाभिख्यः 'तस्य नाम महद्यशः' इति श्रुतेः । 'अभिख्या त्विड्यशोनामसु' इति रत्नमाला । वृत्रसंहननभिदुर-